सुभद्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुभद्रः, पुं, (सुष्ठु भद्रं यस्मात् ।) विष्णुः । इति शब्दमाला ॥ राजभेदः । इति हेमचन्द्रः ॥ (पौवरीगर्भसम्भूतो वसुदेवस्य पुत्त्रविशेषः । यथा, भागवते । ९ । २४ । ४७ । “सुभद्रो भद्रबाहुश्च दुर्म्मदो भद्र एव च । पोवव्यास्तनयो ह्येते भूताद्या द्वादशाभवन् ॥) शाभनमङ्गलयुक्ते, त्रि ॥ (यथा, महाभारते । १ । २३३ । १७ । “त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः । जायन्ते पुष्करिण्यश्च सुभद्रश्च महोदधिः ॥”)
