सामग्री पर जाएँ

सुभिक्षः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुभिक्षः, त्रि, (सुखेन लभ्या भिक्षा यत्र ।) सुलभ- भैक्षद्रव्यम् । सुलभभैक्षयुक्तकालादिश्च । यथा, -- “द्वाविमौ पुरुषौ लोके सूर्य्यमण्डलमेदिनौ । दातान्नस्य तु दुर्भिक्षे सुभिक्षे वस्त्रहेमदः ॥” इति वह्निपुराणे आह्निकतपोनामाध्यायः ॥ किञ्च । “श्वेते क्षेमसुभिक्षं ब्राह्मणपीडांश्च निर्दिशे- द्राहौ ॥” इति तिथ्यादितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=सुभिक्षः&oldid=177572" इत्यस्माद् प्रतिप्राप्तम्