सुमतिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुमतिः, पुं, (शोभना मतिर्यस्य ।) वर्त्तमानकल्पी- यार्हद्भेदः । भूतकल्पीयार्हद्भेदः । इति हेम- चन्द्रः ॥ सुन्दरमतियुक्ते, त्रि । (यथा, भाग- वते । १० । ६० । ३८ । “त्वं वै समस्तपुरुषार्थमयः फलात्मा यद्वाञ्छया सुमतयो विसृजन्ति कृत्स्नम् । तेषां विभो समुचितो भवतः समाजः पुंसः स्त्रियाश्च रतयोः सुखदुःखिनोर्न ॥” * ॥ शोभना मतिः ।) शोभगमतौ, स्त्री ॥
सुमतिः, स्त्री, (शोभना मतिर्यस्याः ।) विष्णु- यशसः पत्नी । सा कल्किमाता । यथा, -- “सम्भले विष्णुयशसो गृहे प्रादुर्भवाम्यहम् । सुमत्यां मातरि विभोः कन्यायां तन्निदेशतः । चतुर्भिर्भ्रातृभिर्देव करिष्यामि कलिक्षयम् ॥” इति कल्किपुराणे २ अध्यायः ॥ अपि च । तत्रैव । “सुमत्यां विष्णुयशसा गर्भमाधत्त वैष्णवम् ॥” “सुमतिस्तं सुतं लब्ध्ना विष्णुं जिष्णुं जगत्पतिम् पूर्णकामा विप्रमुख्यानाहूयादाद्गवां शतम् ॥”
