सुमनः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुमनः, पुं, (सुष्ठु मन्यते इति । सु + मन + अच् । गोधूमः । इत्यमरः । २ । ९ । १८ ॥ (अस्य पर्य्यायो यथा, -- “गोधूमः सुमनोऽपि स्यात्त्रिविधः स च कीर्त्तितः । महागोधूम इत्याख्यः पश्चाद्देशात् समागतः ॥ इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥) धुस्तूरः । इति शब्दमाला ॥ मनोहरे, त्रि । इति शब्दरत्नाबली ॥
सुमनः, [स्] क्ली, (शोभनं मना यस्मात् ।) पुष्पम् । इत्यमरः ॥ (यथा, भागवते । ४ । १५ । ७ । “प्रशंसन्ति स्म तं विप्रा गन्धव्वप्रवरा जगुः । सुमुचुः सुमनोधाराः सिद्धा नृत्यन्ति स्वःस्त्रियः ॥”) उत्तममनश्च । शोभनमनोयुक्ते, त्रि ॥ (यथा, महाभारते । १ । ४९ । १० । “ब्राह्यणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्म्मसु । स्थिताः सुमनसो राजंस्तेन राज्ञा स्वधि- ष्ठिताः ॥”)
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुमनः/ सु--मनः (for -मनस्)in comp.
