सुमनस
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुमनसः, स्त्री, भूम्नि, पुष्पम् । इत्यमरः । २ । ४ । १७ ॥ सुप्रीतं मन आभिरिति सुमनसः नित्यबहुवच- नान्तत्वात् बहुवचननिर्देशः । भूम्नि स्त्रियः सुमनसः । इति रत्नकोषः ॥ बहवश्च समा- सिकता अप् सुमनसोऽप्सरस इति भूम्नि वाम- नोऽपि । भूम्नि भूरिप्रयोगः । एकत्वञ्च दृश्यते । सुमनाः पुष्पमालत्योः स्त्रियां ना धीरदेवयो- रिति मेदिनी । वेश्या श्मशानसुमना इव वर्ज्ज- नीया इति शूद्रकप्रयोगश्च । सुमनसः क्लीवत्व- मपि पुष्पं सुमनः कुसुममिति नाममालादिदर्श- र्नात् । अप्रत्याख्येये दधिसुमनसीति क्लीवत्वं छान्दसमित्येके । इति भरतः ॥ (यथा, महा- भारते । १३ । ९८ । २० -- २२ । “मनो ह्लादयते यम्मात् श्रियञ्चापि ददाति च । तस्मात् समनसः प्रोक्ता नरैः सुकृतकर्म्मभिः ॥ देवताभ्यः सुमनसो यो ददाति नरः शुचिः । तस्य तुष्यन्ति वै देवास्तुष्टाः पुष्टिं ददत्यपि ॥ यं यमुद्दिश्य दीयेरन् देवं सुमनसः प्रभो । मङ्गलार्थं स तेनास्य प्रीतो भवति दैत्यप ! ॥”)
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
(I)--a son of ऊरु (Kuru-वि। प्।). Br. II. ३६. १०८; M. 4. ४३; Vi. I. १३. 6.
(II)--a गण of the IV सावर्ण Manu: in- cludes ३३ Tus2ita gods. Br. IV. 1. ८३-7.
(III)--one of the five deva गणस् of the epoch of ऋथु Sa1varn2a; a mind-born son of ब्रह्मा with ten branches. वा. १००. ८७.
(IV)--a group of ten gods of the XII epoch of Manu. Vi. III. 2. ३४.
