सुमनाः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुमनाः, [स्] पुं, (शोभनं मनो यस्य ।) देवता । इत्यमरः । १ । १ । ७ ॥ सुष्ठुमन्यते सुमना- अस् । शोभनं मनोऽस्य इति वा । इति भरतः ॥ पण्डितः । इति मेदिनी ॥ पूतिकरञ्जः । इति शब्दमाला ॥ निम्बः । महाकरञ्जः । गोधूमः । इति राजनिर्घण्टः ॥ (शोभनचित्ते, त्रि । यथा, महाभारते । ३ । २६ । २१ । “ततस्ते ब्राह्मणाः सर्व्वेवकं दाल्भ्यमपूजयन् ॥ युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन् ॥”)
सुमनाः, [स्] स्त्री, (सुष्ठु, मनो यस्याः ।) पुष्पम् । मालती । इति मेदिनी ॥ जाती । शतपत्री । इति राजनिर्घण्टः ॥ “सुष्ठु मन्यते जनैर्मनोज्ञ- त्वात् शोभनं मनोऽस्यामिति वा सुमनाः सान्ता स्त्रीलिङ्गा च । ‘स्त्रियां सुमनसो भूम्नि पुष्पे जातौ च भेदतः । विदुष्यति यदा दृष्टस्तदा भेदेन शिव्यते ॥’ इति व्याडिः । ‘सुमनाः पुष्पमालत्योः स्त्रियां नाधीरदेवयोः ।’ इति सान्तेषु मेदिनी । आवन्तापि सुमनास्ति । ‘सुमनायाश्च पत्राणि पटोलारिष्टयोस्तथा ।’ इति सुश्रुतः ।” इत्यमरटीकायां भरतः ॥
