सामग्री पर जाएँ

सुमन्तुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुमन्तुः, पुं, मुनिविशेषः । स चाथर्व्ववेदशाखा- प्रचारकः । वज्रवारकश्च । यथा, -- “तत्रर्ग्वेदधरः पैलः सामगो जैमिनिः कविः । वैशम्पायन एवैको निष्णातो यजुषामुत ॥ अथर्व्वाङ्गिरसामासीत् सुमन्तुर्दारुणो मुनिः । इतिहासपुराणानां पिता मे रोमहर्षणः ॥” इति श्रीभागवते । १ । ४ । २० -- २२ ॥ “जैमिनिश्च सुमन्तुश्च वैशम्पायन एव च । पुलस्त्यः पुलहश्चैव पञ्चैते वज्रवारकाः ॥” इति पुराणम् ॥ (सुष्ठु मन्तुरपराधो यस्य ।) अत्यपराधिनि, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=सुमन्तुः&oldid=177623" इत्यस्माद् प्रतिप्राप्तम्