सामग्री पर जाएँ

सुमन्त्रः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुमन्त्रः, पुं, कल्किदेवस्य ज्येष्ठभ्राता । यथा, -- “कल्केर्ज्येष्ठास्त्रयः शूराः कविप्राज्ञसुमन्त्रकाः तातमातृप्रियकरा गुरुविप्रप्रतिष्ठताः ॥” इति कल्किपुराणे २ अध्यायः ॥ अपि च । “विशाखयूपभूपालः प्रायात् साधुजनप्रियः । कल्किं द्रष्ठुं हरेरंशमाविर्भूतञ्च सम्भले ॥ कविं प्राज्ञं सुमन्त्रञ्च पुरस्कृत्य महाप्रभम् । गार्ग्य भार्ग्यविशालैश्च ज्ञातिभिः परिवारितम् ॥” इति तत्रैव ३ अध्यायः ॥ दशरथराजस्य सारथिः मन्त्री च । यथा, -- “तद्गच्छ त्वरितं सूत राजपुत्त्रं यशस्विनम् । राममानय भद्रं ते नात्र कार्य्या विचारणा ॥ अश्रुत्वा राजवचनं कथं गच्छामि भामिनि । तच्छ्रु त्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमत्रवीत् सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् ॥” इति वाल्मीकीये रामायणे अयोध्याकाण्डे १४ सर्गः ॥

"https://sa.wiktionary.org/w/index.php?title=सुमन्त्रः&oldid=177625" इत्यस्माद् प्रतिप्राप्तम्