सुमुखः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुमुखः, पुं, (शोभनं मुखं यस्य ।) गरुडपुत्त्रः । (यथा, महाभारते । ५ । १०१ । २ । “वैनतेयसुतैः सूत षड्भिस्ततमिदं कुलम् । सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्च्चसा । सुरुचा पक्षिराजेन सुबलेन च मातले ! ॥”) गणेशः । शाकभेदः । नागभेदः । इति शब्द- रत्नावली ॥ (यथा, महाभारते । १ । ३५ । १४ । “हस्तपिण्डः पिठरकः सुमुखः कौणपाशनः । कुठरः कुञ्जरश्चैव तथा नागः प्रभाकरः ॥”) पण्डितः । इति विश्वः ॥ सितार्ज्जकः । वन- वर्व्वरिका । वर्व्वरः । इति राजनिर्घण्टः ॥
सुमुखः, त्रि, (सुष्ठु सुखं यस्य ।) मनोज्ञः । सुन्दराननः । इति शब्दरत्नावली ॥ (यथा, भागवते । ४ । २१ । १५ । “सुनासः सुमुखः सौम्यः पीनांसः सुद्विज- स्मितः ॥”)
