सामग्री पर जाएँ

सुरगुरुः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुरगुरुः, पुं, (सुराणां गुरुः ।) बृहस्पतिः । इति त्रिकाण्डशेषः ॥ (यथा, कथासरित्सागरे । ११५ । ७२ । “ततो मुक्त्वा रणं देवसैन्ये ऽपीन्द्रमनुद्रुते । निनाय ब्रह्मभवनं भीतः सुरगुरुः शचीम् ॥” देवपूज्ये, त्रि । यथा, महाभारते । १ । १ । ३२ । “यस्मात् पितामहो जज्ञे प्रभुरेकः प्रजापतिः । ब्रह्मा सुरगुरुः स्थाणुर्म्मनुः कः परमेष्ठ्यथ ॥”)

"https://sa.wiktionary.org/w/index.php?title=सुरगुरुः&oldid=177677" इत्यस्माद् प्रतिप्राप्तम्