सामग्री पर जाएँ

सुरथः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुरथः, पुं, चन्द्रवंशीयचैत्रराजपुत्त्रः । यथा, -- श्रीनारायण उवाच । “अत्रिश्च ब्रह्मणः पुत्त्रस्तस्य पुत्त्रो निशाकरः । स च कृत्वा राजसूयं द्विजराजो बभूव ह ॥ गुरुपत्न्याञ्च तारायां तद्बु भूव बुधः सुतः । बुधपुत्त्रश्च चैत्त्रश्च तत्पुत्त्रः सुरथश्च सः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे । ५८ । ४ -- ५ ॥ सच स्वारोचिषमन्वन्तरे कोलापुर्य्यधिपतिः । तेनादौ पृथिव्यां दुर्गापूजा कृता । तत्प्रसादेन च असौ सावर्णिर्नाम मनुर्जातः । यथा, -- “कालान्तरे पूजिता सा सुरथेन महात्मना । राज्ञा मेधसशिष्येण मृण्मय्याञ्च सरित्तटे ॥ मेषादिभिश्च महिषैः कृष्णसारैश्च गण्डकैः । छागैर्मोनैश्च कुष्माण्डैः पक्षिभिर्बलिभिर्म्भुने ॥ वेदोक्तानि च दत्त्वैव उपचाराणि षोडश । धृत्वा च कवचं ध्यात्वा संपूज्य च विधानतः ॥ राजा कृत्वा परीहारं वरं प्राप यथेप्सितम् । मुक्तिं संप्राप वैश्यश्च संपूज्य च सरित्तटे ॥ तुष्टाव राजा वैश्यश्च साश्रुनेत्रः पुटाञ्जलिः । विससर्ज मृण्मयीं तां गभीरे निर्म्मले जले ॥ तृण्मयीं मृण्मयीं दृष्ट्वा जलधौतां नराधिपः । रुरोद तत्र वैश्यश्च ततः स्थानान्तरं ययौ ॥ त्यक्त्वा देहञ्च वैश्यश्च पुष्करे दुष्करं तपः । कृत्वा जगाम गोलोकं दुर्गादेवीवरेण च ॥ राजा ययौ स्वराज्यञ्च पूज्यो निष्कण्टकं बली भोगञ्च बुभुजे भूपः षष्टिवर्षसहस्रकम् ॥ भार्य्यां स्वराज्यं संन्यस्य पुत्त्रे स कालयोगतः । मनुर्बभूव सावर्णिस्तप्त्वा च पुष्करे तपः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ५४ अध्यायः ॥ * ॥ विस्तारस्तु दुर्गाशब्दे द्रष्टव्यः ॥

"https://sa.wiktionary.org/w/index.php?title=सुरथः&oldid=177707" इत्यस्माद् प्रतिप्राप्तम्