सामग्री पर जाएँ

सुरद्विट्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुरद्विट्, [ष्] पुं, सुरान् द्वेष्टीति । द्विष् + क्विप् ।) असुरः । इत्यमरः । १ । १ । १२ ॥ (यथा, रघुः । १० । १५ । “प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषाम् । अथैनं तुष्टुवुः स्तुत्यमवाङ्मनसगोचरम् ॥” राहुः । यथा, तत्रैव । २ । ३९ । “उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधेव ॥” तथाच बृहत्संहितायाम् । ९७ । २ । “पड्भिः सितस्य मासैरब्दन शनेः सुरद्विषो- ऽब्दार्द्धात् ॥”) देवद्वेषकः ॥ (यथा, भागवते । १ । ३ । २४ । “ततः कलौ संप्रवृत्ते संमोहाय सुरद्विषाम् । बुद्धो नामाञ्जनसुतः कीकटेषु भविष्यति ॥”)

"https://sa.wiktionary.org/w/index.php?title=सुरद्विट्&oldid=177713" इत्यस्माद् प्रतिप्राप्तम्