सुरपर्णम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुरपर्णम्, क्ली, (सुरप्रियं पर्णमस्य ।) ओषधि- विशेषः । माचीपत्री इति ख्यातः । तत्पर्य्यायः । देवपर्णम् २ वीरपर्णम् ३ सुगन्धिकम् ४ माची- पत्रम् ५ सूक्ष्मपत्रम् ६ देवार्हम् ७ गन्धपत्र- कम् ८ । अस्य गुणाः । कटुत्वम् । उष्णत्वम् । कृमिश्वासवलासकफकासनाशित्वम् । दीपनत्वम् वर्ण्यत्वम् । बालहितत्वञ्च । इति राजनिर्घण्टः ॥
