सुरभिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुरभिः, पुं, (सु + रभ + इन् ।) सुगन्धिः । इत्य- मरः । १ । ५ । ११ ॥ चम्पकः । वसन्तर्त्तुः । जातीफलवृक्षः । इति मेदिनी ॥ शमीवृक्षः । कदम्बवृक्षः । कणगुग्गुलुः । गन्धतृणम् । वकुलवृक्षः । रालः । इति राजनिर्घण्टः ॥ चैत्रमासः । धीरः । इति धरणिः ॥ गन्धफलः । इति शब्दरत्नावली ॥
सुरभिः, स्त्री, (सुर + रभ + इन् ।) शल्लकी । मातृभेदः । मुरा । गीः । इति मेदिनी ॥ पुस्त- कान्तरे मुरास्थाने सुरा इति पाठः । रुद्रजष्टा । वनमालिका । तुलसी । पाची । इति राज- निर्घण्टः ॥ पृथिवी । इति धरणिः ॥ गोमाता । (यथा, रघुः । १ । ८१ । “सुतां तदीयां सुरभेः कृत्वा प्रतिनिधिं शुचिः । आराधय सपत्नीकः प्रीता कामदुघा हि सा ॥” तस्या उत्पत्त्यादिर्यथा, -- नारद उवाच । “सा का वा सुरभी देवी गोलोकादागता च या तज्जन्मचरितं ब्रह्मन् श्रोतुमिच्छामि तत्त्वतः ॥ श्रीनारायण उवाच । गवामधिष्ठातृदेवी गवामाद्या गवां प्रसूः । गवां प्रधाना सुरभी गोलोके सा समुद्भवा ॥ सर्व्वादिसृष्टिकथनं कथयामि निशामय । बभूव येन तज्जन्म पुरा वृन्दावने वने ॥ एकदा राधिकानाथो राधया सह कौतुकात् । गोपाङ्गनापरिवृतः पुण्यं वृन्दावनं ययौ ॥ सहसा तत्र रहसि विजहार च कौतुकात् । बभूव क्षीरपानेच्छा तदा स्वेच्छामयस्य च ॥ ससृजे सुरभिं देवो लीलया वामपार्श्वतः । वत्सयुक्तां दुग्धवतीं वत्सो नाम्ना मनोरथः ॥ दृष्ट्वा सवत्सां मुदामा रत्नभाण्डे दुदोह च । क्षीरं सधातिरिक्तञ्च जन्ममृत्युजरापहम् ॥ तदुष्णञ्च पयः स्वादु पपौ गोपीपतिः स्वयम् । सरो बभूव पयस्रा भाण्डविस्रं शनेन च ॥ दैर्घे च विस्तृते चैव परितः शतयोजनम् ।
सुरभिः, त्रि, (सु + रभ + इन् ।) सुगन्धिः । (यथा, मनुः । ३ । २०९ । “उपवेश्य तु तान् विप्रानासनेष्वजुगुप्सितान् । गन्धमाल्यैः सुरभिभिरर्च्चयेद्देवपूर्व्वकम् ॥”) कान्तम् । इति मेदिनी ॥ (यथा, रघुः । २ । २ । “निवर्त्त्य राजा दयितां दयालु- स्तां सौरभेयीं सुरभिर्यशोभिः । पयोधरीभूतचतुःसमुद्रां जुगोप गोरूपधरामिवोर्व्वीम् ॥”) धीरः । विख्यातः । इति धरणिः ॥
