सामग्री पर जाएँ

सुरसः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुरसः, पुं, (शोभनो रसो यस्य ।) सिन्धुवारः । इति शब्दरत्नावली ॥ (अस्य पर्य्यायो यथा, -- “इन्द्राणी चेन्द्रः सुरसो निगुण्डी श्वेतवारकः ॥” इति वैद्यकरत्नमालायाम् ॥) मोचरसः । इति राजनिर्घण्टः ॥ (पीतशालः । अस्य पर्य्यायो यथा, -- “सुरसो बीजकश्चैव पीतशालोऽभिधीयते ॥” इति गारुडे २०८ अध्यायः ॥ तुलसीविशेषः । अस्य गुणा यथा, -- “हिक्काकासविषश्वासपार्श्वशूलविनाशनः । पित्तकृत्कफवातघ्नः सुरसः पूतिगन्धनुत् ॥” इति चरके सूत्रस्थाने । २७ अध्यायः ॥ “कफानिलविषश्वासकासदौर्गन्ध्यनाशनः । पित्तकृत् पार्श्वशूलघ्नः सुरसः समुदाहृतः ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्यायः ॥)

सुरसः, त्रि, (शोभनो रसो यस्य ।) स्वादुः । इति मेदिनी ॥ सुन्दररसयुक्तश्च । (यथा, बृहत्- संहितायाम् । ५४ । १०३ । “तस्यां प्रभूतं सुरसञ्च तोयं कृष्णाथवा यत्र च रक्तमृत् वा ॥”)

"https://sa.wiktionary.org/w/index.php?title=सुरसः&oldid=177795" इत्यस्माद् प्रतिप्राप्तम्