सुरा

विकिशब्दकोशः तः
Jump to navigation Jump to search


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरा, स्त्री, (सु अभिषवे + क्रन् । स्त्रियां टाप् । इत्युणादिवृत्तौ उज्ज्वलः । २ । २४ । यद्वा, सुष्ठु रायन्त्यनयेति । सु + रै शब्दे + “आतश्चोप- सर्गे । ३ । ३ । ११६ । इत्यङ् । टाप् ।) चषकम् । मद्यम् । इति मेदिनी ॥ अस्याः पर्य्यायगुणादि मदिराशब्दे मद्यशब्द च द्रष्टव्यम् । सुराया विशेषगुणा यथा, -- “कृशानां सक्तमूत्राणां ग्रहण्यर्शोविकारिणाम् सुरा प्रशस्ता वातघ्नी स्तन्यरक्तक्षयेषु च ॥” इति राजवल्लभः ॥ तत्पानप्रायश्चित्तं यथा, -- “ब्रह्मघ्रश्च सुरापश्च स्तेयी च गुरुतल्पगः । सेतु दृष्ट्वा विशुध्यन्ते तत्संयोगी च पञ्चमः । ततो धेनुशतं दद्यात् ब्राह्यणानान्तु भोजनम् ॥” इति गारुडे २२६ अध्यायः ॥ * ॥ तत्पाने शुक्राचार्य्यशापो यथा, -- “सुरापानाद्वञ्चनां प्रापयित्वा संज्ञानाशं चैनमस्यातिघोरम् । दृष्ट्वा कचञ्चापि तथापि रूपं पीत तथा सुरया मोहितेन ॥ समन्युरुत्थाय महानुभाव- स्तदोशना विप्रहितं चिकीर्षुः । काव्यः स्वयं वाक्यमिदं जगाद सुरापानं प्रति वै जातशङ्कः ॥ यो ब्राह्मणोऽद्यप्रभृतीह कश्चित् मोहात् सुरां पास्यति मन्दबुद्धिः । अपेतधर्म्मा ब्रह्महा चैव स स्यात् अस्मिन् लोके गर्हितः स्यात् परे च ॥ मया चेमां विप्रधर्म्मोक्तसीमां मर्य्यादां वै स्थापितां सर्व्वलोके । सन्तो विप्राः शुश्रुवांसो गुरूणां देवा दैत्याश्चोपशृण्वन्तु सर्व्वे ॥” इति महाभारते । १ । ७६ । ५९ -- ६२ ॥ ब्राह्मणक्षत्त्रियवैश्यानां त्रिविधसुरापानप्राय- श्चित्तादि यथा, -- “सुरां पीत्वा द्विजो मोहादग्निवर्णां सुरां पिबेत् । तथा स्वकाये निर्दग्धे मुच्यते किल्विषात्ततः ॥ गोमूत्रमग्निवर्णं वा पिबेदुदकमेव वा । पयो घृतं वा मरणाद्गोसकृद्रसमेव वा ॥ कणान् वा भक्षयेदब्दं पिण्याकं वा सकृन्निशि । सुरापानापनुत्त्यर्थं बालवासा जटी ध्वजी ॥ सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुरां पिबेत् ॥ गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्व्वा न पातव्या द्विजोत्तमैः ॥ यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् । तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हविः ॥ अमेध्ये वा पतेन्मत्तो वैदिकं वाप्युदाहरेत् । अकार्य्यमन्यत् कुर्य्याद्वा ब्राह्मणो मदमोहितः ॥ यस्य कायगतं ब्रह्म मद्येनाप्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यं शूद्रत्वञ्च स गच्छति ॥ एषा विचित्राभिहिता सुरापानस्य निष्कृतिः ॥ इति मानवे ११ । ९१ -- ९९ ॥ सौत्रामणियज्ञेऽपि तत्पाननिषेधो यथा, -- “यद्घ्राणमक्षो विहितः सुराया- स्तथा पशोरालभनं न हिंसा । एवं व्यवायः प्रजया न रत्यै इमं विशुद्धं न विदुः स्वधर्म्मम् ॥” इति श्रीभागवते । ११ । ५ । १३ ॥ * ॥ “यस्मात् सुराया घ्राणभक्षः अवघ्राणं स एव विहितः न पानं तथा पशोरपि आलभनमेव विहितं न तु हिंसा । अतो न यथेष्टभक्षणाभ्य- नुज्ञेत्यर्थः । व्यवायोऽपि प्रजया निमित्तभूतया न रत्यै । अतो मनोरथवादिन इमं विशुद्धं स्वधर्म्मं न विदुरिति ।” इति तट्टीकायां श्रीधरस्वामी ॥ अन्यत् प्रायश्चित्तशब्दे द्रष्टव्यम् ॥ * ॥ सुरापाने वर्णनीयानि यथा, -- सुरापाने विकलता स्खलनं वचने गतौ । लज्जा मानच्यु तिः प्रेमाधिक्यं रक्ताक्षता भ्रमः ॥” इति कविकल्पतायां १ स्तवके ३ कुसुमम् ॥

सुराः, [रै] पुं स्त्री, धनवान् । सु शोभनो रा धनं यस्येति बहुव्रौहौ कृते रैशब्दस्य रादेशेन निष्पन्नः ॥

अमरकोशः[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरा स्त्री।

सुरा

समानार्थक:सुरा,हलिप्रिया,हाला,परिस्रुत्,वरुणात्मजा,गन्धोत्तमा,प्रसन्ना,इरा,कादम्बरी,परिस्रुत्,मदिरा,कश्य,मद्य,वारुणी,मधु,हाल,अनुतर्ष

2।10।39।1।1

सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा। गन्धोत्तमाप्रसन्नेराकादम्बर्यः परिस्रुता॥

अवयव : सुराकल्कः,सुरामण्डः

वृत्तिवान् : शौण्डिकः

: मधुकपुष्पकृतमद्यम्, इक्षुशाकादिजन्यमद्यम्, नानाद्रव्यकृतमद्यम्

पदार्थ-विभागः : खाद्यम्,पानीयम्

वाचस्पत्यम्[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरा¦ स्त्री सुर--क सु--रक् वा।

१ मद्ये

२ चषके च मेदि॰। सुरा च मद्यभेदः मद्यशब्दे

४७

२९ पृ॰ दृश्यम्। सोत्रामणीशब्दे वैदिकमार्गेण तदभिषवप्रकारादिर्दृश्यः।

Apte[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरा [surā], (सु-क्रन् Uṇ.2.24)

A spirituous liquor, wine; सुरा वै मलमन्नानाम् Ms.11.93; गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा 94.

Water.

A drinking vessel.

A snake.

Comp. आकरः a distillery.

the cocoanut tree.-आजीवः, -आजीविन् m. a distiller. -आलयः a tavern, dram-shop. -आसवः spirituous liquor. -उदः the sea of spirituous liquor. -कारः a distiller. -गृहम् a tavern.-ग्रहः a vessel for holding liquor; व्यवस्थितिस्तेषु विवाहयज्ञ- सुराग्रहैरासु निवृत्तिरिष्टा Bhāg.11.5.11. -जीविन् a tavernkeeper, a vintner -ध्वजः a flag or sign hung outside a tavern. -प a.

a drinker of spirituous liquor; Ms.11.49.

pleasant, agreeable.

wise, sage. -पाणम्, -पानम् the drinking of wine or liquor. -पात्रम्, -भाजनम्, -भाण्डम् a wine glass or cup; अपः सुराभाजनस्था मद्यभाण्डस्थितास्तथा Ms.11.147. -पीत a. one who has drunk wine; सुखजातः सुरापीतः ... Bk.5.38. -बीजम् a substance serving for the preparation of beer. -भागः yeast. -मण्डः the froth or scum of spirituous liquor during fermentation.-मूल्यम् drink-money. -संधानम् distillation of spirituous liquor.

सुः a drunkard.

a heretic.

Monier-Williams[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरा f. See. s.v.

सुरा f. ( ifc. also n( सुर). ; prob. fr. 3 सु, " to distil " , and not connected with सुर, " a god ") spirituous liquor , wine (in ancient times " a kind of beer ")

सुरा f. spirituous liquor (personified as a daughter of वरुणproduced at the churning of the ocean) RV. etc.

सुरा f. water Naigh. i , 12

सुरा f. a drinking vessel L.

सुरा f. a snake L.

Purana index[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--is स्तुता; mother of Kali; as वारुणि devi1. Br. III. ५९. 9; IV. 9. ६५.
(II)--six different varieties of liquor drunk by the शक्तिस् on the third day of the war; गौडी, पैष्ती, माध्वी, कादम्बरी, हैताली, लाङ्गलेया and तालजात; also that from कल्पवृक्ष; they were of different tastes, sweet, bitter, [page३-662+ २७] saltish, etc., and of various colours; फलकम्:F1:  Br. IV. २८. ७१-6; वा. १०१. १६२.फलकम्:/F liquor with Kaca's powdered body mixed in it taken by शुक्राचार्य and thus deceived by the Asura; hence he ordained that no Brahman should thereafter take liquor, and if he did he would fall from his status and commit a sin equal to brahmicide and would be despised by the world at large. फलकम्:F2:  M. २५. ३९, ६०, ६२-3; ७६. १२.फलकम्:/F
(III)--the sea of liquor. M. 2. ३४.
(IV)--the wife of Kali; son of Mada. वा. ८४. 9.
(II)--a disciple of श्रिन्गिपुत्र. वा. ६१. ४०.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Surā is the name of an intoxicating ‘spirituous liquor,’ often mentioned in Vedic literature. In some passages[१] it is referred to favourably, in others with decided disapproval.[२] It is classed with the use of meat and with dicing as an evil in the Atharvaveda,[३] and often with dicing.[४] It was, as opposed to Soma, essentially a drink of ordinary life.[५] It was the drink of men in the Sabhā,[६] and gave rise to broils.[७]

Its exact nature is not certain. It may have been a strong spirit prepared from fermented grains and plants, as Eggeling[८] holds, or, as Whitney[९] thought, a kind of beer or ale. Geldner[१०] renders it ‘brandy.’ It is sometimes mentioned in connexion with Madhu.[११] It was kept in skins.[१२]

Vedic Rituals Hindi[सम्पाद्यताम्]

Attention yellow.png

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सुरा स्त्री.
यज्ञीय पेय (मदिरा) जिसका निर्माण चावल के दानों से किया जाता है; अङ्कुरित यवों (तोक्म), भुने हुए चावल के दानों एवं खमीर (नगन्हू) का कार्य करने वाली शाकौषधियों के सत्त्व से (सुरा का निर्माण किया जाता है), का.श्रौ.सू. 19.1.2०-21, श्रौ.प.नि. 16०.186; - ग्रह, श्रौ.प.नि. 159-183-187।

  1. Rv. i. 116, 7;
    x. 131, 4, 5. Cf. Av. iv. 34, 6;
    x. 6, 5;
    Taittirīya Saṃhitā, i. 3, 3, 2;
    Śatapatha Brāhmaṇa, xii. 7, 3, 8.
  2. Rv. vii. 86, 6;
    viii. 2, 12;
    21, 14;
    Maitrāyaṇī Saṃhitā, i. 11, 6;
    ii. 4, 2;
    iv. 2, 1, etc.
  3. vi. 70, 1. Cf. Bloomfield, Hymns of the Atharvaveda, 493.
  4. Rv. vii. 86, 6;
    Av. xiv. 1, 35. 36;
    xv. 9, 1. 2.
  5. Taittirīya Brāhmaṇa, i. 3, 3, 2.
  6. See n. 4.
  7. Rv. viii. 2, 12;
    21, 14. Cf. Kāṭhaka Saṃhitā, xiv. 6;
    Śatapatha Brāhmaṇa, i. 6, 3, 4;
    Maitrāyaṇī Saṃhitā, ii. 4, 2, etc.
  8. Sacred Books of the East, 44, 223, n. 2;
    Caland, Altindisches Zauberritual, 21, n. 1;
    Zimmer, Altindisches Leben, 280, 281. Cf. Kātyāyana Śrauta Sūtra, xix. 1, 20-27;
    Mahīdhara on Vājasaneyi Saṃhitā, xix. 1.
  9. Translation of the Atharvaveda, 207. Cf. Schrader, Prehistoric Antiquities, 326.
  10. Rigveda, Glossar, 198.
  11. Av. vi. 69, 1;
    ix. 1, 18, 19;
    Vājasaneyi Saṃhitā, xix. 95. See Hillebrandt, Vedische Mythologie, 1, 251, who attempts to show that Surā and Soma were rival priestly drinks at one time, belonging to different sections of the people.
  12. Pañcaviṃśa Brāhmaṇa, xiv. 11, 26. Cf. Rv. i. 191, 10.

    Cf. Hopkins, Journal of the American Oriental Society, 13, 121.
"https://sa.wiktionary.org/w/index.php?title=सुरा&oldid=480967" इत्यस्माद् पुनः प्राप्तिः