सुरूपः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुरूपः, त्रि, (सु सुन्दरं रूपमस्य ।) शोभनरूप- विशिष्टः । यथा, -- “सुन्दरं रुचिरं चारु मनोज्ञं मञ्जु मञ्जुलम् । कान्तं मनोरमं रुच्यं सुषमं साधु शोभनम् ॥ वल्गु हारि सुरूपाभिरूपदिव्यमनोहरम् ॥” इति जटाधरः ॥ (यथा, बृहत्संहितायाम् । ५८ । ४० । “शाम्बश्च गदाहस्तः प्रद्युम्नश्चापभृत् सुरूपश्च ॥” विद्वान् । यथा, -- “विद्वान् विपश्चिद्दोषज्ञः सन् सुधीः कोविदो बुधः व्यक्तो मनीषी ज्ञः प्राज्ञः संख्यावान् पण्डितः कविः ॥ धीमान् शूरिः कृतिः कृष्टिलब्धवर्णो विचक्षणः प्राप्तरूपसुरूपाभिरूपदूरदृशाः समाः ॥” इति जटाधरः ॥ सुरूपा यथा । नकुलः १ पुरूरवाः २ अश्विनी- कुमारौ ३ नलकूवरौ ४ कन्दर्पः ५ शाम्बः ६ । इति कविकल्पलता ॥
