सामग्री पर जाएँ

सुरेश्वरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुरेश्वरः, पुं, (सुराणामीश्वरः ।) रुद्रः । इति जटाधरः ॥ (यथा, मात्स्ये । ५ । २९ -- ३० । “अजैकपादहिव्रध्नो विरूपाक्षोऽथ रैवतः । हरश्च बहुरूपश्च त्र्यम्बकञ्च सुरेश्वरः ॥ सावित्रश्च जयन्तश्च पिनाकी चापराजितः । एते रुद्राः समाख्याता एकादश गणेश्वराः ॥” इन्द्रः । यथा, रघुः । ३ । ६४ । “नरेन्द्रसूनुः प्रतिसंहरन्निषुं प्रियंवदः प्रत्यवदत् सुरेश्वरम् ॥” देवश्रेष्ठे, त्रि । यथा, भागवते । ४ । १५ । ९ । “ब्रह्मा जगद्गुरुर्देवैः सहासृत्य सुरेश्वरैः । वैण्यस्य दक्षिणे हस्ते दृष्ट्वा चिह्नं गदाभृतः पादयोररविन्दञ्च तं वै मेने हरेः कलाम् ॥” सुरेश्वराचार्य्यः । यथा, पञ्चदशी । ६ । १९० । “अन्योन्याध्यासमत्रापि जीवकूटस्थयोरिव । ईश्वरब्रह्मणोः सिद्धं कृत्वा ब्रूते सुरेश्वरः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सुरेश्वरः&oldid=177870" इत्यस्माद् प्रतिप्राप्तम्