सामग्री पर जाएँ

सुलोचनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुलोचनः, पुं, (शोभने लोचने यस्य ।) हरिणः । इति राजनिर्घण्टः ॥ दुर्य्योधनः । इति केचित् ॥ (धृतराष्ट्रपुत्त्राणामन्यतमः । यथा, महाभारते १ । ६७ । ९४ । “विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः ॥”) सुन्दरचक्षुर्युक्ते, त्रि ॥ (वथा, महाभारते । ३ । ५५ । १३ । “अतीवसुकुमाराङ्गीं तनुमध्यां सुलोचनाम् । आक्षिपन्तीमिव च भाः शशिनः स्वेन तेजसा ॥”

"https://sa.wiktionary.org/w/index.php?title=सुलोचनः&oldid=177886" इत्यस्माद् प्रतिप्राप्तम्