सामग्री पर जाएँ

सुवर्णः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुवर्णः, पुं, क्ली, (सुष्ठु वर्णोऽस्य ।) हेम्नोऽक्षः । स अशीतिरत्तिकापरिमितस्वर्णम् । तत्पर्य्यायः विस्तः २ । इत्यमरः । २ । ९ । ८६ ॥ कर्षं सुवर्णस्य सुवर्णसंज्ञम् । इति लीलावती ॥ कर्ष- परिमाणम् । इति वैद्यकपरिभाषा ॥ (यथा, -- “विद्यात्कर्षं तथा चापि सुवर्णं कवलग्रहम् ॥” इति गारुडे २०८ अध्यायः ॥)

सुवर्णः, पुं, (शोभनो वर्णो यस्य ।) स्वर्णकर्षः । यज्ञविशेषः । इति मेदिनी ॥ धुस्तूरः । इत्य- मरः ॥ कणगुग्गुलुः । इति राजनिर्घण्टः ॥ सुष्ठुवर्णे, त्रि । इति शब्दरत्नावली ॥ (यथा, महाभारते । १३ । ६८ । ३३ । “वाससां सम्प्रदानेन स्वदारनिरतो नरः । सुवर्णश्च सुवेशश्च भवतीत्यनुशुश्रुमः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सुवर्णः&oldid=177917" इत्यस्माद् प्रतिप्राप्तम्