सुवर्णगैरिकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुवर्णगैरिकम्, क्ली, (सुवर्णं सुन्दरवर्णं गैरिकम् ।) गैरिकभेदः । वर्णकमाटि इति वङ्गभाषा । पीत गेरु इति हिन्दी भाषा । तत्पर्य्यायः । स्वर्णधातुः २ सुरक्तकः ३ सन्ध्याभ्रम् ४ वभ्रु- धातुः ५ शिलाधातुः ६ । अस्य गुणाः । गैरिकं मधुरं शीतं कषायं व्रणरोपणम् । विस्फोटार्शोऽग्निदाहघ्नं वरं स्वर्णादिगं शुभम् ॥” इति राजनिर्घण्टः ॥ (तथाच । “गैरिकं रक्तधातुश्च गैरेयं गिरिजन्तथा । सुवर्णगैरिकं, त्वन्यत्ततो रक्त्रतरं हि तत् ॥ गैरिकद्वितयं स्निग्धं मधुरन्तुवरं हिमम् । चक्षुष्यं दाहपित्तास्रकफहिक्काविषापहम् ॥” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)
