सुवर्णबणिक्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुवर्णबणिक्, पुं, (सुवर्णस्य बणिक् क्रयविक्रयादि- कर्त्ता ।) जातिविशेषः । सोनार वेणिया इति भाषा । स तु अम्बष्ठाद्वैश्यायां जातः मध्यम- वर्णसङ्करः । इति केचित् ॥ तस्य पातित्यकारणं यथा, ब्रह्मववर्त्ते ब्रह्मखण्डे । १० । ९५ । “कश्चिद्बणिग्विशेषश्च संसर्गात् स्वर्णकारिणः । स्वर्णचौर्य्यादिदोषेण पतितो ब्रह्मशापतः ॥” अपि च । “गान्धिकः शाङ्खिकश्चैव कांस्यको मणिकारकः । सुवर्णजीविकश्चैव पञ्चंते बणिजः स्मृताः ॥ अम्बष्ठाद्रजपुत्त्र्यान्तु जायते गान्धिको बणिक् । गन्धचन्दनधूपादिक्रयविक्रयकारकः ॥ गान्धिक्यां रजपुत्त्राच्च संजातः शाङ्खिको बणिक् । शङ्खं दत्त्वा मुनेः प्रत्न्यै शङ्खजीवी प्रकीत्तितः ॥ शाङ्खिक्यां गान्धिकाज्जातस्ताम्रकांस्योप- जीविकः । शाङ्खिकात् कांस्यकन्यायां मणिकारः प्रजायते । कांस्यकाराच्च माणिक्यां सुवर्णजीविकोऽभवत् ॥” इति पराशरपद्धतौ भार्गवरामकृतवर्णसङ्कर- जातिमाला ॥
