सामग्री पर जाएँ

सुशर्म्मा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुशर्म्मा, [न्] पुं, राजविशेषः । इति पुराणम् ॥ निन्दितब्राह्मणविशेषः । यथा, -- “सुशर्म्मा नाम को देव किं जातीयः किमात्मकः कुतस्तस्य च वै मुक्तिः केन वा यत्र हेतुना ॥ श्रीभागवानुवाच । सुशर्म्मा नाम दुर्म्मेधाः सीमा पापात्मनामभूत् । अनाम्नायविदां वंशे विप्राणां क्रूरकर्म्मणाम् ॥” इति पाद्योत्तरखण्डे ८० अध्यायः ॥ सु + शॄ गि हिंसे + “अन्येभ्योऽपि दृश्यन्ते ।” ३ । २ । ७५ । इति मनिन् ।) सुशृणाति यः । इति मुग्धबोधटीकायां दुर्गादासः ॥ शोभनसुख- विशिष्टे, त्रि ॥

"https://sa.wiktionary.org/w/index.php?title=सुशर्म्मा&oldid=177991" इत्यस्माद् प्रतिप्राप्तम्