सुशीलः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुशीलः, पुं, (सु शोभनं शीलमस्य ।) चोलराजः । यथा, -- “यो विष्णुदासः स तु पुण्यशीलो यश्चोलभूपः स सुशीलनामा । आवामुभौ तत्समरूपभाजौ द्वाःस्थौ कृतौ तेन रमाप्रियेण ॥” इति पाद्मे उत्तरखण्डे ५४ अध्यायः ॥ शोभनशीलविशिष्टे, त्रि ॥ (यथा, भागवते । ६ । १ । १७ । “सध्रीचीनो ह्ययं लोके पन्थाः क्षेमोऽकुतोभयः । सुशीलाः साधवो यत्र नारायणपरायणाः ॥” शोभनं शीलमिति । सच्चिरित्रे, क्ली । यथा, महाभारते । ३ । २९७ । ४३ । “त्वया सुशीलव्रतपुण्ययुक्तया समद्धृतं साध्वि पुनः कुलीनया ॥”)
