सुश्रीका
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुश्रीका, स्त्री, (शोभना श्रीः शोभा यस्याः । कप् ।) सल्लकी । इति राजनिर्घण्टः ॥ सुन्दर- श्रीयुक्ते, त्रि ॥ (यथा, हरिवंशे । १८३ । ११३ । “द्वारोपशोभितां कृत्वा सर्व्वां द्वारवतीं पुरीम् । संमृष्टरथ्यां सुश्रीकां बहुरत्नोपशोभिताम् ॥”) सुश्रुतः, पुं, विश्वामित्रमुनिपुत्त्रः । स तु चिकित्सा- शास्त्रकर्त्ता । यथा, -- “तथा धन्वन्तरिवंशे जातः क्षीराब्धिमन्थने । देवादौनां जीवनाय आयुर्व्वेदमुवाच ह । विश्वामित्रसुतायेव सुश्रुताय महात्मने ॥” इति गारुडे १५० अध्यायः ॥ अथ सुश्रुतप्रादुर्भावः । “अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽवदन् । अयं धन्वन्तरिः काश्यां काशिराजोऽयमुच्यते ॥ विश्वामित्रो मुनिस्तेषु पुत्त्रं सुश्रुतमुक्तवान् । वत्स वाराणसों गच्छ त्वं विश्वेश्वरवल्लभाम् ॥ तत्र नाम्ना दिवोदामः काशिराजोऽस्ति बाहुजः स हि धन्वन्तरिः साक्षादायुर्व्वेदविदां वरः ॥ आयुर्व्वेदं ततोऽधीत्य लोकोपकृतिहेतवे । सर्व्वप्राणि दया तीर्थमुपकारो महामखः ॥ पितुर्व्वचनमाकर्ण्य सुश्रुतः काशिकां गतः । तेन सार्द्धं समध्येतुं मुनिसूनुशतं ययौ ॥ अथ धन्वन्तरिं सर्व्ववानप्रस्थाश्रमे स्थितम् । भगवन्तं सुरश्रेष्ठं मुनिभिर्बहुभिः स्तुतम् ॥ काशिराजं दिवोदासं तेऽपश्यन् विनयान्विताः । स्वागतं व इति स्माह दिवोदासो यशोधनः ॥ कुशलं परिपप्रच्छ तथागमनकारणम् । ततस्ते सश्रुतद्वारा कथयामासुरुत्तरम् ॥ भगवन् मानवान् दृष्ट्वा व्याधिभिः परिपीडितान् । क्रन्दतो म्रियमाणांश्च जातास्माकं हृदि व्यथा ॥ आमयानां शमोपायं विज्ञातुं वयमागताः । आयुर्व्वेदं भवानस्मानध्यापयतु यत्नतः ॥ अङ्गीकृत्य वचस्तेषां नृपतिस्तानुपादिशत् । व्याख्यातं तेन ते यत्नात् जगृहुर्मुनयो मुदा ॥ काशिराजं जयाशीर्भिरभिनद्य मुदान्विताः । सुश्रुताद्याः सुसिद्धार्था जग्मुर्गेहं स्वकं स्वकम् ॥ प्रथमं सुश्रुतस्तेषु स्वं तन्त्रं कृतवान् स्फुटम् । सुश्रुतस्य सखायोऽपि पृथक् तन्त्राणि तेनिरे ॥ सुश्रुतेन कृतं तन्त्रं सुश्रुतं बहुभिर्यतः । तस्मात्तत् सुश्रुतंनाम्ना विख्यातं क्षितिमण्डले ॥” इति भावप्रकाशः ॥ (क्ली, गोष्ठीश्राद्धे तृप्तिप्रश्नः । यथा, मनुः । ३ । २५४ । “पित्र्ये स्वदितमित्येव वाच्यं गोष्ठेतु सुश्रुतम् । सम्पन्नमित्यभ्यु दये दैवे रुचितमित्यपि ॥”)
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुश्रीका/ सु--श्रीका f. the incense-tree L.
