सामग्री पर जाएँ

सुषुप्तिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुषुप्तिः, स्त्री, (सु + स्वप् + क्तिन् ।) सत्त्वप्रधानं अज्ञानम् । तस्य नामान्तरम् । कारणशरीरम् । आनन्दमयकोषश्च । इति वेदान्तसारः । सर्व्वस्य स्थूलसूक्ष्मोपाथेः कारणोपाधौ लीनत्वं सुषुप्ति- त्वम् । इति तट्टीका ॥ अवस्थाविशेषः । यथा, “स्वप्नावस्था परीक्षिता सुषुप्तावस्थेदानीं परी- क्ष्यते । तत्रैताः सुषुप्तविषयाः श्रुतयो भवन्ति यद्यत्रैतत् सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानात्यासु नाडीषु सृप्तो भवतीति । नाडी- रनुक्रम्य श्रूयते । ताभिः प्रत्यवसृप्य पुरीतति शेत इति । विकल्पमानेषु तु सुषुप्तिस्थानेषु कदाचिन्नाडीभ्यः प्रतिबुध्यते कदाचित् पुरीततः कदाचिदात्मन इत्यशासिष्यत् । तस्मादप्यात्मैव तु सुप्तिस्थानमिति ।” इति शारीरिकभाष्ये ३ अध्याये २ पादः ॥ किञ्च । “यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् ।” इति माण्डुक्योपनिषत् ॥ सुनिद्रा च ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सुषुप्तिः [suṣuptiḥ], f.

Deep or profound sleep, profound repose.

Great insensibility, spiritual ignorance; अविद्यात्मिका हि बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुषुप्तिर्यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवाः Ś.B. on Br. Sūt.1.4.3.

"https://sa.wiktionary.org/w/index.php?title=सुषुप्तिः&oldid=241526" इत्यस्माद् प्रतिप्राप्तम्