सुहोत्रः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सुहोत्रः, पुं, चन्द्रवंशीयबृहदिषुराजपुत्त्रः । यथा, “बृहदिषोश्च दायादः सुहोत्रो नाम धार्म्मिकः सुहोत्रस्यापि दायादो हस्ती नाम बभूव ह ॥” इति महाभारते हरिवंशे पितृकल्पे २० अः ॥ (सहदेवपुत्त्रः । यथा, महाभारते । १ । ९५ । ८० । “सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामो पयेमे मद्रराजस्य द्युतिमतो दुहितरं तस्यां पुत्त्रमजनयत् सुहोत्रं नाम ॥” * ॥ भरतवंशी- यस्य भुमन्योः पुत्त्रविशेषः । यथा, तत्रैव । १ । ९४ । २४ । “सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा । पुष्करिण्यामृचीकश्च भुमन्योरभवन् सुताः ॥”)
