सूचकः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सूचकः, त्रि, (सूचयतीति । सूचपैशुन्ये + ण्वुल् ।) पिशुनः । इत्यमरः । ३ । १ । ४७ ॥ (यथा, मनुः । ४ । ७१ । “लोष्टमर्द्दी तृणच्छेदी नखखादी च यो नरः । स विनाशं व्रजत्याशु सूचकोऽशुचिरेव च ॥”) अस्य विवरणं कर्णेजपशब्दं द्रष्टव्यम् ॥ (सूचन- कर्त्ता । यथा महाभारते । १ । १३६ । २७ । “द्वारदेशात् समुद्भूतो माहात्मबलसूचकः । वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ॥”)
सूचकः, पुं, (सीव्यत्यनेनेति । सिव + “सिवेष्टे- रू च ।” उणा० ४ । ९३ । इति चट् । टेरूत्वञ्च । ततः स्वार्थे कन् ।) सीवनद्रव्यम् । (सूचय- तीति । सूच + ण्वुल् ।) बोधकः । कुक्कुरः । विडालः । काकः । इति मेदिनी । के, १६८ ॥ पिशुनः । बुद्धः । सिद्धः । पिशाचः । इति शब्दरत्नावली ॥ सूत्रधारः । कथकः । इति हेमचन्द्रः ॥ सूक्ष्मशालिः । इति राजनिर्घण्टः ॥
