सूचिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सूचिः, स्त्री, (सूच्यतेऽनयेति । सूच + णिच् + “अच इः ।” उणा० ४ । १३८ । इति इः ।) व्यधनी । इत्यसरः । ३ । ५ । ७ ॥ (यथा, कथा- सरित्सागरे । १०४ । ७५ । “चन्द्रोऽग्निर्विषमाहारो गीतानि श्रुतिसूचयः उद्यानं बन्धनं पौष्पी माला दिग्धा शरावली ॥” “विव्यथ भरतोऽतीव व्रणे तुद्येव सूचिना ।” इति रामायणे । २ । ७५ । १७ । इत्यत्र तु महाकविप्रयोगवशात् साधुत्वम् ॥) नृत्यप्रभेदः । शिखा । यथा, -- “सूचिर्नृत्यप्रभेदे च व्यधनीशिखयोरपि ।” इति रत्नकोषः ॥ (यथा, कुमारे । ५ । ४३ । “अलभ्यशोकाभिभवेयमाकृति- र्विमानना सुभ्रु कुतः पितुर्गृहे । पराभिमर्शो न तवान्ति कः करं प्रसारयेत् पन्नगरत्नसूचये ॥” * ॥ केतकीपुष्पम् । इति सूचिपुष्पशब्दर्शनात् ॥ यथा, ऋनुसंहारे । २ । २३ । “मुदित इव कदम्बैर्जातपुष्पैः समन्तात् पवनचलितशाखैः शाखिभिर्नृत्यतीव । हसितमिव विधत्ते सूचिभिः केतकीनां नवसलिलनिषेकात् शान्ततापो वनान्तः ॥” व्यूहविशेषः । यथा, मनुः । ७ । १९१ । “संहतान् योधयेदल्पान् कामं विस्तार- येद्बहून् । सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सूचिः [sūciḥ] ची [cī], ची f. [सूच्इन् वा ङीप्]
Piercing, perforating.
A needle; निमेषादपि कौन्तेय यस्यायुरपचीयते । सूच्येवाञ्जन- चूर्णस्य किमिति प्रतिपालयेत् ॥ Mb.3.35.3.
Sharp point or pointed blade (as of Kuśa grass); अभिनवकुशसूच्या परिक्षतं मे चरणम् Ś.1; so मुखे कुशसूचिबिद्धे Ś.4.13.
The sharp point or tip of anything; कः करं प्रसारयेत् पन्नगरत्न- -सूचये Ku.5.43.
The point of a bud,
A kind of military array, a sharp column or file; दण्डव्यूहेन तन्मार्गं यायात् तु शकटेन वा । वराहमकराभ्यां वा सूच्या वा गरुडेन वा Ms. 7.187.
A triangle formed by the sides of a trapezium produced till they meet.
A cone, pyramid.
Indication by gesture, communicating by signs, gesticulation.
A particular mode of dancing.
Dramatic action.
An index, a table of contents.
A list, catalogue.
The earth's disc in computing eclipses (in astr.).
A rail or balustrade.
A small door-bolt.
A kind of coitus. -Comp. -अग्र a. needle-pointed, having a sharp needle-like point, acuminated. (-ग्रम्) The point of a needle. -आस्यः a rat.-कटाहन्यायः see under न्याय. -कर्मन् needle-work. -खातः a sharp pyramid or pyramidal excavation, a cone.-गृहकम् a needle-case. -पत्रकम् an index, a table of contents. (-कः) a kind of pot-herb. -पुष्पः the Ketaka tree. -भिन्न a. bursting open at the point of the buds; पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नैः Me.23. -भेद्य a.
to be pierced or penetrated by a needle.
thick, dense, pitchy, gross, utter; रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः Me.39.
palpable, tangible. -मुख a.
needle-mouthed, having a pointed beak.
pointed.
(खः) a bird.
white Kuśa grass.
a particular position of the hands. (-खम्) a diamond. -रदनः a mungoose.-रोमन् m. a hog. -वदन a. needle-faced, having a pointed beak.
(नः) a gnat, mosquito.
a mungoose. -शालिः a kind of fine rice. -शिखा the point of a needle -सूत्रम् a thread for a needle (for sewing).
सूचिः [sūciḥ], m.
The son of निषाद and a वैश्या.
A maker of winnowing baskets &c.
