सूचीमुखम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सूचीमुखम्, क्ली, (सूचीवत् सूक्ष्मं मुखं यस्य ।) होरकम् । इति हेमचन्द्रः ॥ (यथा, साहित्य- दर्तणे । ८ । ६१२ । “सूचीमुखेन सकृदेव कृतव्रणस्त्वं मुक्ताकलाप लुठसि स्तनयोः प्रियायाः । बाणैः स्मरस्य शतशो विनिकृत्तमर्म्मा स्वप्नेऽपि तां कथमहो न विलोकयामि ॥” * ॥ नरकविशेषः । यथा, भागवते । ५ । २६ । ७ । “पर्य्यावर्त्तनः सूचीमुखमित्यष्टाविंशतिर्नरका विविधयातनाभूमयः ॥” * ॥ सूच्या मुखम् । यथा, कादम्बरी । “तमसि सूचीमुखाग्रसंभेद्ये इति ॥” सूचास्ये, त्रि । (यथा, महाभारते । ६ । १८ । ५ । “सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ॥” तथा, मार्कण्डेये । १४ । ५५ । “दुष्टास्ते पूयनिर्य्यासभुजः सूचौमुखास्तु ते ॥”)
