सामग्री पर जाएँ

सूतः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सूतः, पुं, (सूप्रेरणे ऐश्वर्य्ये प्रसवे च + क्तः ।) सारथिः । (यथा, रघुः । ३ । ४२ । “स पूर्व्वतः पर्व्वतपक्षशातनं ददर्श देवं नरदेवसम्भवः । पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयतम् ॥”) त्वष्टा । इत्यमरः । ३ । ४ । ६१ ॥ क्षत्त्रियात् ब्राह्मणीसुतः । (यथा, मनुः । १० । ११ । “क्षत्त्रियात् विप्रकन्यायां सूतो भवति जातितः अश्वसारथ्यमेवैतेषां जीविका । यथा, तत्रैव । १० । ४७ । “सूतानामश्वसारथ्यमम्बष्ठानां चिकित्सितम् ॥ वन्दी । (यथा, रघुः । ५ । ६५ । “सूतात्मजाः सवयसः प्रथितप्रबोधं प्राबोधयन्नुषसि वाग्भिरुदारवाचः ॥”) पारदः । इति मेदिनी ॥ (यथा, वैद्यकरसेन्द्र- सारसंग्रहे जारणमारणाधिकारे । “हतो हन्ति जराव्याधिं मूर्च्छितोव्याधिघातकः बद्धः खेचरतां धत्ते कोऽन्यः सूतात् कृपाकरः ॥ सूर्य्यः । इत्यनेकार्थकोषः ॥ पूराणवक्ता । यथा, “सवान्ते सूतमनघं नैमिषीया महर्षयः । पुराणसंहितां पुण्यां पप्रच्छ लोमहर्षणम् ॥ त्वया सूत महाबुद्धे भगवान् ब्रह्मवित्तमः । इतिहासपुराणार्थं व्यासः सम्यगुपासितः ॥ अस्य ते सर्व्वरोमाणि वचसा हृषितानि यत् । द्वैपायनस्य भगवांस्ततो वै रोमहर्षणः ॥ भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः । मुनीनां संहितां वक्तुं व्यासः पौराणिकों पुरा त्वं हि स्वायम्भुवे यज्ञे सत्यादौ वितते सति । संभूतः संहितां वक्तुं स्वांशेन पुरुषोत्तम ॥” इति कौर्म्मे । १ । ३ -- ६ ॥ * ॥ अपि च । “नियोगाद्ब्रह्मणः सार्द्धं देवेन्द्रेण महौजसः । वेणपुत्त्रस्य वितते पुरा पैतामहे मखे ॥ सूतः पौराणिको जज्ञे मायारूपः स्वयं हरिः । प्रवक्ता सर्व्वशास्त्राणां धर्म्मज्ञो गुणवत्सलः ॥ तं मां वित्त मुनिश्रेष्ठाः पूर्व्वोद्भूतं सनातनम् । एतस्मिन्नन्तरे व्यासः कृष्णद्वैपायनः स्वयम् ॥ श्रावयामास याः प्रीत्या पुराणपुरुषो हरिः । मदन्वये च ये सूताः संभूता वेदवर्ज्जिताः । तेषां पुराणवक्तृत्वं वृत्तिरासीदजाज्ञया ॥” इति कौर्म्मे १२ अध्यायः ॥ * ॥ किञ्च । “ब्रह्मणः पौष्करे यज्ञे सूत्याहे वितते सति । पृषदाज्यात् समुत्पन्नः सूतः पीराणिको द्विजः ॥ वक्ता वेदादिशास्त्राणां त्रिकालामलतत्त्ववित् । तीर्थयात्राप्रसङ्गेन नैमिषारण्यमागमत् ॥” इति वह्निपुराणे १ अध्यायः ॥ * ॥ अन्यच्च । “हस्ते तु दक्षिणे चक्रं दृष्ट्वा तस्य पितामहः । विष्णोरंशं पृथुं मत्वा परितोषं परं ययौ ॥ ४४ ॥ तस्य वै जातमात्रस्य यज्ञे पैतामहे शुभे । सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामते ॥ ५० तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः । प्रोक्तौ तदा मुनिवरैस्तावुभौ सूतमागधौ ॥ ५१ स्तूयतामेव नृपतिः पृथुर्वैण्यः प्रतापवान् ॥” ५२ इति विष्णुपुराणे । १ । १३ अध्यायः ॥ * ॥ यून एव पृथोर्जातत्वात् जातमात्रस्य यज्ञ इत्यु- च्यते । पृथुरेवाभवत् यस्मात्ततः पृथुरजायत इति मात्स्योक्तेः । पैतामहे पितामहदैवत्ये पृथोरेव यज्ञे न तु पितामहकर्त्तृके । यथाह वायुः । वैण्यस्य हि पृथोर्यज्ञे वर्त्तमाने महा- त्मनः । सूतः सूत्यां समुत्पन्न इति । सूत्यामिति सूतिरभिषूतिः अभिषूयते कण्ड्यते सोमोऽस्या- मिति सूतिः सीमाभिषवभूमिस्तस्याम् । सौत्ये- ऽहनि तस्मिन्नेव दिने । इति तट्टीका ॥ * ॥ किञ्च । “एतस्मिन्नेव काले तु यज्ञे पैतामहे शुभे । सूतः सूत्यां समुत्पन्नः सौत्येऽहनि पुराणवित् ॥ तेषां यज्ञे पुनस्त्वेवमुत्पन्नौ सूतमागधौ । पृथोः स्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥ ते ऊचुरृषयः सर्व्वे स्तूयतामेष पार्थिवः । तैर्नियुक्तौ सुकर्म्माणि पृथोर्यानि महात्मनः ॥ तुष्टुवुस्तानि सर्व्वाणि आशीर्व्वादांस्ततः परान् तयोः स्तवान्ते सुपीतः पृथुः प्रादात् जनेज्वरः ॥ अनूपंदेशं सूताय मागधान् मागधाय च । तं दृष्ट्वा परमपीताः प्रजाः प्राहुर्महर्षयः ॥ वृत्तीनामेष वो दाता भविष्यति नरेश्वरः ॥” इति वह्निपुराणे पृथोरुपाख्याननामाध्यायः ॥

सूतः, पुं, क्ली, (सू + क्तः ।) पारदः । इत्यमरः ॥ (यथा, -- “रसोनखरसैः सूतो नागवल्लीदलोत्थितैः । त्रिफलायास्तथा क्वाथै रसो मर्द्द्यः प्रयत्नतः ॥ ततस्तेभ्यः पृथक्कृत्वा सूतं प्रक्षाल्य काञ्जिकैः । सर्व्वदोषविनिर्म्मुक्तं योजयेद्रसकर्म्मसु ॥ इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा- धिकारे ॥)

सूतः, त्रि, (सू + क्तः ।) प्रसूतः । प्रेरितः । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=सूतः&oldid=178188" इत्यस्माद् प्रतिप्राप्तम्