सूतिकागृहम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सूतिकागृहम्, क्ली, (सूतिकाया गृहम् ।) प्रसवा- लयः । तत्पर्य्यायः । अरिष्टम् २ । इत्यमरः । १ । २ । ८ ॥ सूतकागृहम् ३ । इति तट्टीका ॥ सूतीगृहम् ४ सूतिगृहम् ५ । इति जटाधरः ॥ तस्याकृतिर्यथा, -- “अष्टहस्तायतं चारु चतुर्हस्तविशालकम् । प्राचीद्वारमुदग्द्वारं विदध्यात् सूतिकागृहम् ॥” इति भावप्रकाशः ॥ तत्र पिशाचानां वासो यथा, -- “सर्व्वत्रगानप्रतिघान् सूतिकागृहसेविनः । पृष्ठतः पाणिपादांश्च पृष्ठग्रीवान् सुरंहसः ॥ एवविधान् पिशाचांश्च दृष्ट्वा ब्रह्मानुकम्पया । अन्तर्धानं वरं प्रादात् कामशायित्वमेव च ॥” इति वह्निपुराणे प्रजापतिसर्गनामाध्यायः ॥ प्रसवात् पूर्व्वं तत्संस्कारमाह साङ्ख्यायनगृह्यम् काकादन्या मेचकधातक्या बृहत्याः कोषतक्या कालक्लीतकस्य मूलानि पेषयित्वा उपलेपयेद्देशं यस्मिन् प्रजायते रक्षसामपहत्यै इति । काका- दनी काकजङ्क्षा । मेचकधातकीकाकमोचिका कोषातकी घोषकम् । कालक्लीतकः यष्टिमधु- केति कल्पतरुः ॥ अतएव हरिवंशे । “एष मानुष्यको यत्नो मानुषैरेव साध्यते । श्रूयतां येन दैवं हि मद्विधैः प्रतिहन्यते ॥ मन्त्रग्रामैः सूविहितैरौषधैश्चैव योजितैः । यत्नेन चानुकूलेन दैवमप्यनुलोम्यते ॥” इत्यनुचरान् प्रति कंसवाक्यम् । इति ज्योति- स्तत्त्वम् ॥
