सूतिकारोग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सूतिकारोगः, पुं, (सूतिकाया रोगः ।) नव- प्रसूताया व्याधिभेदः । तन्निदानादि यथा, -- “मिथ्योपचारात् संक्नेशात् विशमाजीर्णभोज- नात् । सूतिकायास्तु ये रोगा जायन्ते दारुणाश्च ते ॥” मिथ्योपचारात् अनुचिताचरणात् । प्रवातादि- सेवनात् । संक्लेशात् संक्लिश्यन्ते दोषा अनेन इति संक्लेशः दोषजनकमन्नं तस्मात् । दारुणाः कष्टसाध्याः । के ते व्याधय इत्याकाङ्क्षायामाह । “अङ्गमर्द्दो ज्वरः कासः पिपासा गुरुमात्रता । शोथः शूलातिसारौ च सूतिकारोगलक्षणम् ॥” एतेऽङ्गमर्द्दादयः प्रायेण सूतिकाया भवन्तः सूतिकारोगत्वेन लक्ष्यन्ते ॥ * ॥ ज्वरादीनां रोगविशेषाणां निदानविशेषमाह । “ज्वरातीसारशोथाश्च शूलानाहबलक्षयाः । तन्द्रारुचिप्रसेकाद्या वातश्लेष्मसमुद्भवाः ॥ कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबलाश्रिताः ते सर्व्वे सूतिका नाम्ना रोगास्ते चाप्युपद्रवाः ॥” सूतिकाभवत्वेन सूतिकानाम्ना ते रोगाः । आश्रयाश्रितयोरभेदोपचारात् । ते चाप्युपद्रवा इति । त एव ज्वरादय उक्तानां रोगाणामन्य- तमं प्रधानीकृत्योपद्रवाश्च ॥ * ॥ अथ सूतिकारोगचिकित्सा । “सूतिकारोगशान्त्यर्थं कुर्य्यात् वातहरीं क्रियाम् । दशमूलकृतं क्वाथं कोष्णं दद्यात् घृतान्वितम् ॥ अमृतानागरसहचरभद्रोत्कटपञ्चमूलकं जल- दम् । शृतशीतं मधुयुक्तं शमयत्यचिरेण सूतिकातङ्कम् ॥ देवदारु वचा कुष्ठं पिप्पली विश्वभेषजम् । भूनिम्बकट्फलं मुस्तं तिक्ताधान्यं हरीतकी ॥ गजकृष्णा सदुःस्पर्शा गोक्षुरं धन्वयासकः । बृहत्यतिविषा च्छिन्ना कर्क्कटः कृष्णजीरकः ॥ समभागान्वितैरेतैः सिन्धुरामठसंयुतैः । क्वाथमष्टावशेषन्तु प्रसूतां पाययेत् स्त्रियम् ॥ शूलकासज्वरश्वासमूर्च्छाकम्पशिरोऽर्त्तिभिः । युक्तं प्रलापतृड्दाहतन्द्रातीसारवान्तिभिः ॥ निहन्ति सूतिकारोगं वातपित्तकफोद्भवम् । कषायो देवदार्व्वादिः सूतायाः परमौषधम् ॥” इति देवदार्व्वादिक्वाथः ॥ * ॥ “जीरकः स्थूलजीरश्च शतपुष्पाद्वयन्तथा । यवानी चाजमोदा च धान्यकं मेथिकापि च ॥ शुण्ठी कृष्णा कणामूलं चित्रकं हपुषापि च । वदरीफलचूर्णञ्च कुष्ठं कम्पिल्लकं तथा ॥ एतानि पलमात्राणि गुडं शतपलं मतम् । क्षीरं प्रस्थद्वयं दद्यात् सर्पिषः कुडवन्तथा ॥ पञ्चजीरकपाकोऽयं प्रसूतानां प्रशान्तये । युज्यते सूतिकारोगे योनिरोगे ज्वरे क्षये । कासे श्वासे पाण्डुरोगे कार्श्ये वातामयेषु च ॥” इति पञ्चजीरकपाकः ॥ * ॥ “आज्यस्याञ्जलियुग्ममत्र पयसःप्रस्थद्वयंखण्डत पञ्चाशत्पलमत्र चूर्णितमथ प्रक्षिप्यते नागरम् । प्रस्थार्द्धं गुडवद्विपाच्य विधिना मुष्टित्रयं धान्य- कात् मिश्याः पञ्चपलं पलं कृमिरिपोः साजाजि- जीरादपि ॥ व्योषाम्भोददलोरगेन्द्र-सुमनस्तत्द्राविडीनां पल पक्वं नागरखण्डसंज्ञकमिदं सौभाग्यदं योषि- ताम् । तृट्श्वासज्वरदाहशोषशमनं सश्वासकासापहं प्लीहव्याधिविनाशनं कृमिहरं मन्दाग्निसन्दी- पनम् ॥” दलं पत्रकम् । उरगेन्द्रसुमुखनागकेशरम् । द्राविडी सूक्ष्मैला । सौभाग्यशुण्ठीपाकः । इति भावप्रकाशः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सूतिकारोग¦ पु॰
६ त॰। भावप्र॰ उक्ते रोगभेदेतन्निदानादि यथा
“मिथ्योपचारात् संक्लेशात् विषमा-जीर्णभोजनात्। मूतिकायास्तु ये रोगा जायन्ते दारु-णाश्च ते”। मिथ्योपचारात् अनुचिताचरणात् प्रवा-तादिसेवनात्। संक्लेशात् संक्लिश्यन्ते दोषा अनेन इतिसंक्लेशः दोषजनकमन्नं तस्मात्। दारुणाः कष्टसाध्याः। के ते व्याधय इत्याकाङ्क्षायामाह
“अङ्गमर्दो ज्वरः कासःपिपासा गुरुगात्रता। शोथः शूलातिसारौ च मूतिका-रोगलक्षणम्। एतेऽङ्गमर्दादयः प्रायेण मूतिकायाभवन्तः मूतिकारोगत्वेन लक्ष्यन्ते। ज्वरादीनां रोग-विशेषाणां निदानविशेषमाह
“ज्वरातीसारशोथाश्च शूलानाहबलक्षयाः। तन्द्रारुचिप्रसेकाद्या वातश्लेष्म-समुद्भवाः। कृच्छ्रसाध्या हि ते रोगाः क्षीणमांसबला-श्रिताः। ते सर्वे सूतिकानाम्ना रोगास्ते चाप्युपद्रवाः” मूतिकाभवत्वेन मूतिकानाम्ना ते रोगाः आश्रयाश्रित-योरमेदोपचारात् ते चाप्युपद्रवा इति त एव ज्वरादयःउक्तानां रोगाणामन्यतमं प्रधानीकृत्योपद्रवाश्च”।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सूतिकारोग¦ m. (-गः) Puerperal sickness.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सूतिकारोग/ सूतिका--रोग m. = -गदMW.
