सूतिकाषष्ठी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सूतिकाषष्ठी, स्त्री, (सूतिकायाः षष्ठी । सूतिका- गृहपूज्या षष्ठीति मध्यपदलोपी कर्म्मधारयो वा ।) सूतिकागारे जातबालकस्य षष्ठदिने पूज्यदेवीविशेषः । अथ सूतिकाषष्ठी-पूजा । विष्णुधर्म्मोत्तरे । “सूतिकावासनिलया जन्मदा नाम देवताः । तासां यागनिमित्तार्थं शुद्धिर्जन्मनि-कीर्त्तिता ॥ षष्ठेऽह्नि रात्रियागन्तु जन्मदानाञ्च कारयेत् । रक्षणीया सदा षष्ठी निशां तत्र विशेषतः ॥ राम ! जागरणं कार्य्यं जन्मदानां तथा वलिः ॥” रामेति सम्बोधनम् ॥ * ॥ तत्राशौचान्तरदोषो- ऽपि नास्ति । “अशौचे तु समुत्पन्ने पुत्त्रजन्म यदा भवेत् । कर्त्तुस्तात्कालिकी शुद्धिः पूर्व्वाशौचाद्विशु- ध्यति ॥” इति प्रजापतिवचनात् । पुत्त्रजन्मेति श्रवणात् पितुरेवाशौचाभावः न तु मातुः कर्त्तुरिति पुंलिङ्गनिर्द्देशाच्च । कारयेदिति अन्यगोत्रजाभि- प्रायेण ॥ * ॥ तत्रादौ विनयकादिसहितषोडश- मातृकापूजनम । तथा च कृत्यचिन्तामणौ । तस्मात् संरक्षणं कार्य्यं यत्नतः सूतिकागृहे ॥” यूपो बद्धच्छागस्तम्भः । पशुः छागः । छाग- जागरणं कार्य्यमित्येकवाक्यत्वात् ॥ * ॥ पाद्मे । “पायसं सर्पिषा मिश्रं द्विजेभ्यो यः प्रयच्छति । गृहं तस्य न रक्षांसि धर्षयन्ति कदाचन ॥” इति ज्योतिस्तत्त्वम् ॥ अन्यत् षष्ठीशब्दे द्रष्टव्यम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सूतिकाषष्ठी¦ स्त्री सूतिकागृहे पूज्या षष्ठी शाक॰। सूतिका-गारे प्रसवावधि षष्ठे दिवसे पूज्यायां षष्ठीदेव्याम्। य-थाह
“विष्णधर्मोत्तरे
“सूतिकावासनिलया जन्मदा नामदेवताः। तासां यागनिमित्तार्थं शुद्धिर्जन्मनि कीर्त्तता। षष्ठेऽह्नि रात्रियागन्तु जन्मदानाञ्च कारयेत्। रक्षणीयासदा षष्ठी निशां तत्र विशेषतः। राम! जागरणं कार्य्यंस्नन्मदानां तथा वलिः”। रामेति सम्भोधनम्। तत्रा-शाचान्तरदोषोऽपि नास्ति।
“अशौचे तु समुत्पन्नेपुत्रजन्म यदा भवेत्। कर्त्तुस्तात्कालिकी शुद्धिः पूर्वा-शौच द्विशुध्यति” इति प्रजापतिवचनात्। पुत्रजन्मेति[Page5326-b+ 38] श्रवणात् पितुरेवाशौचाभावः न तु मातुः कर्त्तुरितिपुंलिङ्गनिर्देशाच्च। कारयेदिति अन्यगोत्रजाभिप्रायेण। तत्रादौ विनायकादिसहितषोडशमातृकापूजनम्। तथाच कृत्यचिन्तामणौ
“छागजागरणं कार्य्यं खड्गोधार्य्यः समीपतः। आवाह्य पूजयेद्देवीं गणेशं मातृकागिरिम्”। देवीं षष्ठीम्। गिरिं मन्थानदण्डम्। भोज-राजः
“गणेशश्चैव नन्दा च पूतना सुखमण्डिका। विवा-निका शकुनिका शुष्कनन्दा च जम्भिका। आचार्य्यकारेवती च पिलिपिञ्जा ततः परम्। स्कन्दा च द्वादशैते-ऽर्च्याः रक्षार्थं मातृका ग्रहाः” ज्यो॰ त॰
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सूतिकाषष्ठी/ सूतिका--षष्ठी f. a goddess worshipped on the sixth day after child-birth MW.
