सूत्रधारः

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

  1. नाटकस्य व्यवस्थापकः
  2. सूत्रम् धारयति इति-
  3. सूत्रम् धारयतीत्यर्थे सूत्रधारो निगद्यते

अनुवादाः[सम्पाद्यताम्]

आम्गलम्- stage manager मलयाळम्- സൂത്രധാരൻ

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सूत्रधारः, पुं, (सूत्रं धरति धारयति वा । धृ + णिच् वा + अण् ।) शचीपतिः । इन्द्रः । नान्द्य- न्तरसञ्चारी । स तु रङ्गभूमिं परिक्रम्य नाट- कीयकथासूत्रसूचकः । (यथा, साहित्यदर्पणे । ६ । २८३ । “पूर्व्वरङ्गं विधायैव सूत्रधारो निवर्त्तते । प्रविश्य स्थापकस्तद्वत् काव्यमास्थापयेत्ततः ॥”) शिल्पिप्रभेदः । छुतार इति भाषा । इति मेदिनी ॥ स च शूद्रागर्भे विश्वकर्म्मण औरसेन जातः । इति ब्रह्मवैवर्त्ते ब्रह्मखण्डे १० अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=सूत्रधारः&oldid=507055" इत्यस्माद् प्रतिप्राप्तम्