सामग्री पर जाएँ

सूदनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सूदनम्, क्ली, (सूद् + ल्युट् ।) अङ्गीकरणम् । हनन्म् । (यथा, हरिवशे । १६३ । ४२ । “वैष्णवास्त्रं प्रयच्छास्मै वधार्थं शम्बरस्य च । अभेद्यं कवचं तस्य प्रयच्छासुरसूदने ॥”) निःक्षेपणम् । षूदधातोरनट्प्रत्ययेन निष्पन्नम् ॥ तद्वति, त्रि । (यथा, महाभारते । १ । १९ । २० । “तत्र दिव्यं धनुर्द्दष्ट्वा नरस्य भगवानपि । चिन्तयामास तच्चक्रं विष्णुर्दानवसूदनम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=सूदनम्&oldid=178270" इत्यस्माद् प्रतिप्राप्तम्