सामग्री पर जाएँ

सूनृतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सूनृतम्, क्ली, (सुनृत्यत्यनेनेति । सु + नृत् + घञर्थेकः उपसर्गस्य दीर्घः ।) सत्यप्रियवाक्यम् । इत्यमरः । १ । ६ । १९ ॥ (यथा, साहित्यदर्पणे । ३ । १५५ । “भाषते सूनृतं म्लिग्धमनुरक्ता नितम्बिनी ॥”) मङ्गलम् । इत्यजयः ॥ तद्वति, त्रि । (यथा, भागवते । १ । १९ । ३१ । “प्रणम्य मूर्द्ध्नावहितः कृताञ्जलि- र्नत्वा गिरा सूनृतयान्वपृच्छत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=सूनृतम्&oldid=178290" इत्यस्माद् प्रतिप्राप्तम्