सामग्री पर जाएँ

सूर्य्यकान्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सूर्य्यकान्तः, पुं, (सूर्य्यः कान्तो यस्य । सूर्य्यस्य कान्तः प्रियो वा ।) स्फटिकः । इति हला- युधः ॥ मणिविशेषः (यथा, रघुवंशे । ११ । २१ । “ज्योतिरिन्धननिपाति भास्करात् सूर्य्यकान्त इव ताडकान्तकः ॥”) तत्पर्य्यायः । सूर्य्यमणिः २ सूर्य्याश्मा ३ दहनो- पमः ४ । इति हेमचन्द्रः ॥ तपनमणिः ५ तापनः ६ रविकान्तः ७ दीप्तोपलः ८ अग्निगर्भः ९ ज्वल- नाश्मा १० अर्कोपलः ११ । अस्य गुणाः । उष्णत्वम् । निर्म्मलत्वम् । रसायनत्वम् । वात- श्लेष्महरत्वम् । मेध्यत्वम् । पूजनाद्रवितुष्टिदत्वञ्च इति राजनिर्घण्टः ॥ पुष्पवृक्षविशेषः । तत्- पर्य्यायः । सूर्य्यमणिः २ पुष्परक्तः ३ पचत्पुटः ४ । इति शब्दचन्द्रिका ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सूर्य्यकान्त¦ पु॰ सूर्य्यस्य कान्तः प्रियः।

१ स्फटकमणौ हला॰[Page5328-b+ 38]

२ मूर्य्यसम्पर्कात् यत्राग्निसम्भवस्तस्मिन् (आतसो) मणौच हेमच॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सूर्य्यकान्त¦ m. (-न्तः)
1. The sun-gem, sometimes applied to crystal, but usually to a stone of fabulous existence and properties.
2. A tree, (Hibiscus phœniceus,) the red sort. E. सूर्य्य the sun, कान्त a gem.

"https://sa.wiktionary.org/w/index.php?title=सूर्य्यकान्त&oldid=245137" इत्यस्माद् प्रतिप्राप्तम्