सूर्य्यकालानलचक्रम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सूर्य्यकालानलचक्रम्, क्ली, नरणा शुभाशुभज्ञानार्थं नक्षत्रघटितचक्रविशेषः । यथा, -- “ऊर्द्धगास्त्रित्रिशूल्यग्रास्तिस्रस्तिर्य्यग्व्यवस्थिताः द्वे द्वे नाड्यौ स्थिते कोणे शृङ्गयुग्मं तथैकया ॥ मध्यत्रिशूलदण्डादौ भानुभाद्यं भमण्डलम् । साभिजित्तत्र दातव्यं सव्यमार्गेण सर्व्वदा ॥ नाम ऋक्षं स्थितं यत्र ज्ञेयं तत्र श्रुभाशुभम् । अधोगतैस्त्रिनक्षत्रैरुद्वेगो वधबन्धनम् ॥ रेखाष्टके जयो लाभ ऋक्षषट्के तथा पुनः । शृङ्गयुग्मे रुजाभङ्गो मृत्युः शूलत्रये स्फुटम् ॥ विवादे व्यसने युद्धे रोगार्त्ते गमने तथा । सूर्य्यकालानलं चक्रं ज्ञातव्यन्तु प्रयत्नतः ॥” इति स्वरोदयः ॥
