सामग्री पर जाएँ

सूर्य्यतनयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सूर्य्यतनयः, पुं, (सूर्य्यस्य तनयः ।) शनैश्चरग्रहः । यमः । (सावर्णिमनुः । रेवन्तः ।) यथा, -- “तस्य पत्नीत्रयन्तद्वत् संज्ञा राज्ञी प्रभा तथा । रेवतस्य सुता राज्ञी रेवन्तं सुषुवे सुतम् । २ । प्रभा प्रभातं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम् । यमश्च यमुना चैव यमलौ तु बभूवतुः ॥ ३ ॥ जनयामास तस्यान्तु पुत्त्रञ्च मनुरूपिणम् । सवर्णत्वाच्च सावर्णिर्मनोर्वैवस्वतस्य च ॥ ८ ॥ ततः शनिञ्च तपतीं विष्टिञ्चैव क्रमेण तु । छायायां जनयामास संज्ञे यमिति भास्करः ॥” ९ इति मात्स्ये ११ अध्यायः ॥ (वानरराजः सुग्रीवः । कर्णश्च ॥)

"https://sa.wiktionary.org/w/index.php?title=सूर्य्यतनयः&oldid=178348" इत्यस्माद् प्रतिप्राप्तम्