सामग्री पर जाएँ

सूर्य्यलोक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सूर्य्यलोकः, पुं, (सूर्य्यस्य लोकः ।) सौरभुवनम् । यथा, -- “विनौषधैर्विना वैद्यैर्विना पथ्यपरिग्रहैः । कालेन निधनं प्राप्य सूर्य्य लोके महीयते ॥” इति काशीखण्डे सूर्य्यार्घ्य दानफलम् ॥ अपि च । “सौरं लोकमथावाप्य क्षणेन स विमानगः । यथा कदम्बकुसुमं किञ्जल्कैः सर्व्वतोवृतम् ॥ देदीप्यमानं हि तथा समन्ताद्भानुभानुभिः । दूराद्रविं स विज्ञाय धृततामरसद्वयम् ॥ नवभिर्य्योजनानाञ्च सहस्रैः सम्मितेन च । विचित्रेणैकचक्रे ण सप्तसप्तियुतेन च ॥ अनूरुणाधिष्ठितेन सर्व्वतो धृतरश्मिना । अप्सरोमुनिगन्धर्व्वसर्पग्रामणिनैरृतैः ॥ स्यन्दनेनातिजविना प्रणनाम कृताञ्जलिः । तस्य प्रणामं देवोऽपि भ्रूभङ्गेनानुमन्य च । अतिदूरं नभोवर्त्म प्रतिचक्राम स क्षणात् ॥ प्रक्रान्ते द्युमणौ दूरं शिवशर्म्मातिशर्म्मवान् । प्रोवाच भगवद्भृत्यौ कथं लभ्यं रवेः पदम् ॥” इति स्कन्दपुराणे काशीखण्डे सूर्य्यलोकवर्णनं नाम ९ अध्यायः ॥

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सूर्य्यलोक¦ m. (-कः) The heaven of the sun.

"https://sa.wiktionary.org/w/index.php?title=सूर्य्यलोक&oldid=245203" इत्यस्माद् प्रतिप्राप्तम्