सामग्री पर जाएँ

सूर्य्यवंशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सूर्य्यवंशः, पुं, (सूर्य्यस्य वंशः ।) सूर्य्यस्य सन्तानः । तद्विवरणं यथा । परमेश्वरात् ब्रह्मा जातः । तस्य पुत्त्रो मरीचिः । तस्य कश्यपः । तस्य सूर्य्यः । तस्य वैवस्वतो मनुः । सत्ययुगे मनु- रेव राजासीत् । त्रेतायुगे तस्य पुत्त्रः इक्ष्वाकुः अयोध्यायां राजासीत् । अस्मिन् युगे अति- दीर्घायुषो राजानो बहुकालं राज्यं कृतवन्तः । त्रेताद्वापरयोः सन्धौ श्रीरामचन्द्रो दशरथसुत- रूपेण अवतीर्णः । द्वापरयुगस्य प्रथमे तस्य पुत्त्रः कुशो जातः । तद्वंशः सुमित्रान्तः कलेः सहस्रवर्षपर्य्यन्तं राज्यं कृतवन्तः एतत्पर्य्यन्तं सूर्य्यवंशविश्रान्तिः । पुनः सत्ययुगे मरुः नष्टं सूर्य्यवशं भावयिष्यति । यः योगसिद्धः सन् कलापग्रामे आस्ते । इति श्रीभागवतमतम् ॥ वंशवर्णनविस्तारस्तु मत्स्यपुराणे ११ अध्या- यादौ गरुडपुराणे १४३ अध्याये च द्रष्टव्यः ॥

"https://sa.wiktionary.org/w/index.php?title=सूर्य्यवंशः&oldid=178369" इत्यस्माद् प्रतिप्राप्तम्