सामग्री पर जाएँ

सूर्य्यहृदय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सूर्य्यहृदयम्, क्ली, (सूर्य्यस्य हृदयमिव ।) सूर्य्यस्य स्तवविशेषः । यथा, -- “अथोपतिष्ठे दादित्यमुदयन्तं समाहितः । मन्त्रैस्तु विविधैः सौरैरृग्यजुःसामसम्भवैः ॥ उपस्थाय महायोगं देवदेवं दिवाकरम् । कुर्व्वीत प्रणति भूमौ मूर्ध्ना नित्यञ्च मन्त्रतः ॥ द्वादशादित्यनामानि प्रातःकाले पठैन्नरः । दुःस्वप्ननाशनञ्चैव सर्व्वदुःखञ्च नश्यति ॥ दद्रुकुष्ठहरञ्चैव दारिद्र्यं हरते ध्रुवम् । सर्व्वतीर्थप्रदञ्चैव सर्व्वकामप्रवर्द्धनम् ॥ यः पठेत् प्रातरुत्थाय भक्त्या नित्यमिदं नरः । सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च ॥ अग्निमीले नमस्तुभ्यमिषेत्वोर्जेस्वरूपिणे । अग्न आयाहि वीतस्त्वं नमस्ते ज्योतिषां पते । शन्नोदेवी नमस्तुभ्यं जगच्चक्षुर्नमोऽस्तु ते । पञ्चमायोपवेदाय नमस्तुभ्यं नमो नमः ॥ पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः । सप्ताश्वरथसंयुक्तो द्विभुजः स्यात् सदा रविः ॥ आदित्यस्य नमस्कारं ये कुर्व्वन्ति दिने दिने । जन्मान्तरसहस्रेषु दारिद्र्यं नोपजायते ॥ उदयगिरिमुपेतं भास्करं पद्महस्तं निखिलभुवननेत्रं भक्तरत्नोपमेयम् । तिमिरकरिमृगेन्द्रं बोधकं पद्मिनीनां सुरवरमभिवन्दे सुन्दरं विश्ववन्द्यम् ॥” इति श्रीभविष्योत्तरपुराणे श्रीकृष्णार्ज्जुनसंवादे आदित्यहृदयस्तीत्रं संपूर्णम् ॥ * ॥)

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सूर्य्यहृदय¦ n. (-यं) Name of a hymn to the sun.

"https://sa.wiktionary.org/w/index.php?title=सूर्य्यहृदय&oldid=245224" इत्यस्माद् प्रतिप्राप्तम्