सूर्य्यार्घ्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सूर्य्यार्घ्यम्, क्ली, (सूर्य्याय देयमर्घ्यम् ।) सूर्य्यसम्प्र- दानकार्घ्यम् । शक्तिपूजायां अच्छिद्रावधार- णार्थं सूर्य्यार्घ्यदानम् । यथा, -- “ततो भास्करबीजेन सहितेनामुना पुनः । मन्त्रेण भास्करायार्घ्यमच्छिद्रार्थं निवेदयेत् ॥ नमो विवस्वते ब्रह्मन् भास्वते विष्णुतेजसे । जगत्सवित्रे शुचये सवित्रे कर्म्मदायिने ॥ ततः कृताञ्जलिर्भूत्वा पठित्वा मन्त्रमीरितम् । एकाग्रमनसा वाग्भिरच्छिद्रमवधारयेत् ॥ यज्ञच्छिद्रं तपश्छिद्रं यच्छिद्रं पूजने मम । सर्व्वं तदच्छिद्रमस्तु भास्करस्य प्रसादतः ॥” इति कालिकापुराणे ५६ अध्यायः ॥ * ॥ रोगादिशान्त्यर्थं सूर्य्य स्य हंसादिसप्ततिनामभिः सप्ततिधार्घ्यप्रदानप्रमाणं यथा, -- “हंसो भानुः सहस्रांशुस्तपनस्तापनो रविः । विकर्त्तनो विवस्वांश्च विश्वकर्म्मा विभावसुः ॥ विश्वरूपो विश्वकर्त्ता मार्त्त ण्डो मिहिरोऽंशु- मान् । आदित्यश्चोष्णगुः सूर्य्योऽर्य्यमा व्रध्रो दिवा- करः ॥ द्वादशात्मा सप्तहयो भास्करोऽहस्करः खगः । सूरः प्रभाकरः श्रीमान् लोकचक्षुर्ग्रहेश्वरः ॥ त्रिलोकेशो लोकसाक्षी तमोऽरिः शाश्वतः शुचिः । गभस्तिहस्तस्तीव्रांशुस्तरणिः सुमहोरणिः ॥ द्युमणिर्हरिदश्वोऽर्को भानुमान् भयनाशनः । छन्दोऽश्वो वेदवेद्यश्च भास्वान् पूषा वृषाकपिः ॥ एकच रिथो मित्रो मन्देहारिस्तमिस्रहा । दैत्यह पापहर्त्ता च धर्म्माधर्म्मप्रकाशकः ॥ हेलिकश्चित्रभानुश्च कलिघ्नस्तार्क्ष्यवाहनः । दिक्पतिः पद्मिनीनाथः कुशेशयकरो हरिः ॥ धर्म्मरश्मिर्दु र्निरीक्षश्चण्डांशुः कश्यपात्मजः । एभिः सप्ततिसंख्याकैः पुण्यैः सूर्य्यस्य नामभिः ॥ प्रणवादिचतुर्थ्यन्तैर्न्न मस्कारसमन्वितैः । प्रत्येकमुच्चरन्नाम दृष्ट्वा दृष्ट्रा दिवाकरम् ॥ विगृह्य पाणियुग्मेन ताम्रपात्रं सुनिर्म्मलम् । जानुभ्यामवनीं गत्वा परिपूर्य्यं जलेन च ॥ करवीरादिकुसुमै रक्तचन्द्रनमिश्रितैः । दूर्व्वाङ्कुरैरक्षतैश्च निःक्षिप्तैः पात्रमध्यतः ॥ दद्यादर्घ्यमनर्घ्याय सवित्रे ध्यानपूर्व्वकम् । उपमौलिसमानीय तत्पात्रं नान्यदृङ्मनाः ॥ प्रतिमन्त्रं नमस्कुर्य्यादुदयास्तमये रविम् । अनया नाम सप्तत्या महामन्त्ररहस्यया ॥ ॥ एवं कुर्व्वन्नरो जातु न दरिद्रो न दुःखभाक् । व्याधिभिर्म्मुच्यते धोरैरपि जन्मान्तरार्ज्जितैः ॥ विनौषधैर्व्विना वैद्यैर्व्विना पथ्यपरिग्रहैः । कालेन निधनं प्राप्य सूर्य्य लोके महीयते ॥” इति स्कन्दपुराणै काशीखण्डे ९ अध्यायः ॥
