सामग्री पर जाएँ

सूर्य्यावर्त्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सूर्य्यावर्त्तः, पुं, (सूर्य्य इव आवर्त्तते इति । आ + वृत् + अच् ।) क्षुपविशेषः । हुडहुडिया इति भाषा । अस्य गुणः । सूर्य्यावर्त्तो विबन्धघ्नः । इति राजवल्लभः ॥ शाकविशेषः । सुलचिया इति भाषा । तत्पर्य्यायः । “पार्व्वतेयश्च करभो वशिरः कपिपिप्पली । जामातासौ क्वचित् प्रोक्तः सूर्य्यावर्त्तः सितो- ऽपरः ॥” इति रत्नमाला ॥ “वराहकाली कथितः सूर्य्यावर्त्तस्तु शाब्दिकैः ॥” इति हारावली ॥

"https://sa.wiktionary.org/w/index.php?title=सूर्य्यावर्त्तः&oldid=178383" इत्यस्माद् प्रतिप्राप्तम्