सृक्व
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सृक्व, [न्] क्ली, (सृजति लालादीनिति । सृज + वनिप् ।) ओष्ठप्रान्तभागः । यथा, -- “ -- प्रान्तावोष्ठस्य सृक्वणी ।” इत्यमरः ॥ “ओष्ठयोर्व्वामदक्षिणौ प्रान्तौ सृक्वणी उच्येते ओष्ठस्येति जातावेकत्वम् । सृजतो लालादि सृक्वणी त्रासुसिति क्वनिप् निपातनात् कङ् । सृक्वणा कणेतिप्रयोगात् वसंयोगः । अन्यथा टायां सदानोऽल्लोप इत्यल्लोपः स्यात् । ‘महासृक्काय शोभितो नृसिंहनखराग्रवत् ।’ इति श्लेषात् ककारद्वयसंयोगोऽपि । सृक्व नान्तं क्लीवं सृक्वणी क्लीवे इति सुभूतिः । प्रान्तावोष्ठस्य सृक्वणी क्लीवकाण्डे ऽमरदत्तश्च । ईबन्तापि सृक्वणी । सृक्वण्यौ विलिहति जिह्वया तथैवेति रुग्विनिश्चयः । ‘स सृक्वणीप्रान्तमसृक्प्रदिग्धं प्रलेलिहानो हरिणा विरुच्चैः ।” इति पाणिनिः ॥ सृक्वि क्लीवमिदन्तञ्च सक्थ्यस्थिनी दधि ससृक्विं तथा वारिः स्यादित्यरुणः । सृक्वं क्लीवमदन्तञ्च ‘सृक्वे द्वे चैव विज्ञेये चत्वारिंशच्च वक्त्रजाः ।” इत्युक्तेः । वामं लिहन् सृक्वमरण्यघूर्ण इति वसन्तराजप्रयोगाच्च ।” इति भरतः ॥
सृक्वम्, क्ली, ओष्ठप्रान्तभागः । इति वसन्तराज- प्रयोगः । इत्यमरटीकायां भरतः ॥
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सृक्व n. the corner of the mouth L.
सृक्व m. N. of a man. IndSt.
