सृज
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सृज, औ श विसर्गे । इति कविकल्पद्रुमः ॥ (तुद० पर०-सक०-अनिट् ।) औ, अस्राक्षीत् । श, सृजति । इति दुर्गादासः ॥
सृज, य ङ औ विसर्गे । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-सक०-अनिट् ।) य ङ, सृज्यते । औ, स्रष्टा । सरीसृज्यते । विसर्गस्त्यागः । त्यागो व्युद्भ्यां पर एव अन्यत्र करोतीत्यर्थः । यथा । उपासनामेत्य पितुः स्म सृज्यते इति नैषधम् ॥ संपूर्व्वोऽयमकर्म्मकः । यथा । संसृ- ज्यते सरसिजैररुणांशुभिन्नैः निशापरिणाम- वायुरिति रघुः । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सृज¦ विसर्गे त्यागे दिवा॰ आत्म॰ अनिट् सक॰। सृज्यतेअसृष्ट। पर्युस्यसान्न षोपदेशः।
सृज¦ विसर्गे तु॰ पर॰ सक॰ अनिट् सृजति अस्राक्षीत् ससर्जिषसस्रष्ठ स्रष्टा स्रक्ष्यति। पर्युदासन्न षोपदेशः।
