सृष्टिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सृष्टिः स्त्री, (सृज् + क्तिन् ।) निर्म्मितिः । स्वभावः । इति मेदिनी ॥ निर्गुणः इति शब्दरत्रावली ॥ * ब्रह्माण्डसृष्टिर्यथा । सृष्टेः पूर्व्वं मनश्चक्षुराद्य- गोचरो भगवान् एक एवासीत् । यदा स स्वेच्छया द्रष्टा सन् दृश्यं नापश्यत् तदा त्रिगुणमयीं मायां प्रकाशयामास । ततो भग- वान् स्वांशेन पुरुषरूपं कृत्वा तस्यां मायायां स्ववीर्य्यं चैतन्यं आधत्त । सा समष्टिजीवरूपं महत्तत्त्वं जनयमास । तस्यात् त्रिविधोऽह- ङ्कारो जातः तत्र सात्त्विकाहङ्कारात् मनैन्द्रि- याधिष्ठातृदेवताश्च जाताः । राजसाहङ्कारात् दशेन्द्रियाणि जातानि । तामसाहङ्कारात् पञ्च महाभूतानि तेषां पञ्च गुणाश्च जाताः । एवं प्रकृत्यादिभिरैतैश्चतुर्विंशतितत्त्वैर्ब्रह्माण्डंनिर्म्माय भगवान् तस्मिन्नेकेनांशेन प्रविश्य गर्भोदकसंज्ञकं जलं ससर्ज । तज्जलमध्ये योगनिद्रया सहस्र- युगमितं कालं स्थितवान् । तदन्ते उत्थाय स्वय- मंशेन ब्रह्मा भूत्वा सर्व्वान् सृष्ट्वा नानावता- रान् कृत्वा पालयति । कल्पान्ते रुद्ररूपेण संहरति च । इति श्रीभागवतमते संक्षेप- सृष्टिः ॥ * ॥ अपि च । “स्थावरान्ताः सुराद्यास्तु प्रजा ब्रह्मंश्चतु- र्व्विधाः । ब्रह्मणः कुर्व्वतः सृष्टिं जज्ञिरे मानसीस्तु ताः ॥ ततो देवासुरपितॄऋन् मनुष्यांश्च चतुष्टयम् । सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ॥ युक्तात्मनस्तमोमात्रा उद्रिक्ताभूत् प्रजापतेः । सिसृक्षोर्जवनात् पूर्व्वममुरा जज्ञिरे ततः ॥ उत्मसर्ज ततस्तान्तु तमोमात्रात्मिकां तनुम् । सा तु त्यक्ता तनुस्तेन मैत्रे याभूद्विभावरी ॥ सिसृक्षुरन्यदेहस्थः प्रीतिमाप ततः सुराः । सत्त्वोद्रिक्ताः समुद्भूता मुखतो प्रह्मणो द्विज ॥ उच्चावचानि भूतानि गात्रे भ्यस्तस्य जज्ञिरे । देवासुरपितॄन् सृष्ट्वा मनुष्यांश्च प्रजापतिः ॥ ततः पुनः ससर्ज्जादौ सङ्कल्पात् स पितामहः । यक्षान् पिशाचान् गन्धर्व्वान् तथैवाप्सरसां गणान् ॥ नरकिन्नररक्षांसि वयःपशुमृगोरगान् । अव्ययञ्च व्ययञ्चैव यदिदं स्थाणुजङ्गमम् । तत् ससर्ज तदा ब्रह्मा भगवानादिकृत् प्रभुः ॥ तेषां ये यानि कर्म्माणि प्राक्सृष्ट्यां प्रतिपेदिरे तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥ हिंस्राहिंस्रे मृदुक्रूरे धर्म्माधर्म्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ इन्द्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः । नानात्वं विनियोगञ्च धातैव व्यसृजत् स्वयम् ॥ नाम रूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः ॥ ऋषीणां नामधेयानि यथा वेदश्रुतानि वै । तथा नियोगयोग्यानि अन्येषामपि सोऽकरोत् ॥ यथार्त्तावृतुलिङ्गानि नानारूपाणि पर्य्यये । दृश्यन्ते तानि तान्ये व तथा भावा युगादिषु ॥ करोत्येवंविधां सृष्टिं कल्पादौ स पुनः पुनः । सिसृक्षाशक्तियुक्तोऽसौ सृज्यशक्तिप्रचोदितः ॥” इति विष्णुपुराणे । १ । ५ । २७ -- ६५ ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सृष्टिः [sṛṣṭiḥ], f. [सृज्-क्तिन्]
Creation, anything created; किं मानसी सृष्टिः Ś.4; या सृष्टिः स्रष्टुराद्या Ś.1.1; स्त्रीरत्नसृष्टि- रपरा प्रतिभाति सा मे Ś.2.1; सृष्टिरोद्येव धातुः Me.84; Bhāg. 1.19.16.
The creation of the world.
Nature, natural property.
Letting loose, emission.
Giving away, a gift; सृष्टिर्मृष्टिर्द्विजाश्चाग्र्याः श्राद्धकर्मसु संपदः Ms. 3.255.
The existence of properties or qualities.
The absence of properties.
Offspring (संतान); संसृष्टा ब्राह्मणैरेव त्रिषु वर्णेषु सृष्टयः Mb.12.6.42. -Comp. -अन्तरः the offspring of intermarriage between चतुर्वर्ण castes. -कर्तृ m. the creator. -पत्तनम् a particular magical power. -सृज् m. (Nom. sing. सृक्-ग्-सृट्-ड्) the creator; L. D. B.
