सेंह
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सेंहः, त्रि, (सिंहस्यायमिति । सिंह + अण् ।) सिंहसम्बन्धी । सिंहतुल्यः । इति सिद्धान्त- कौमुदी ॥ (स्त्रियां ङीप् । यथा, माघे । १ । ४७ । “सटाच्छटाभिन्नघनेन विभ्रता नृसिंह सैंहौमतनुं तनुं त्वया । स मुग्धकान्तास्तनसङ्गभङ्गुरै- रुरोविदारं प्रतिचस्करे नखैः ॥
