सेकतम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सेकतम्, क्ली, (सिकताः सन्त्यत्रेति । अण् ।) वालुकामयतटम् । इत्यमरः । १ । ३ । २६ ॥ (यथा, कुमारे । १ । २९ । “मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्त्रकैश्च । रेमे मुहुर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥”
